________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३८]
RAOSeeeeeeeer
मधुरः शर्कराधाश्रितः, एतान् पञ्चविधान् रसविशेषान् जनयिष्यति, लवणरसस्य मधुरादिसंसर्गजत्वाद् तदभेदेन । | विवक्षणात् , सम्भाव्यते च तत्र माधुर्यादिसंसर्गः सर्वरसानां लवणप्रक्षेप एव स्वादुत्वोत्पत्तेः तेन न पृथग्निर्देशः, एषां
च पश्चानां मेघानां क्रमेणेदं प्रयोजनं सूत्र उक्तमपि स्पष्टीकरणाय पुनर्लिख्यते-आद्यस्य भरतभूमेर्दाहोपशमः द्विती| यस्य तस्या एव शुभवर्णगन्धादिजनकत्वं तृतीयस्य तस्या एव स्निग्धताजनकत्वं न चात्र क्षीरमेघेनैव शुभवर्णगन्ध| रसस्पर्शसम्पत्ती भूमिस्निग्धतासम्पत्तिरिति वाच्यं, स्निग्धताधिक्यसम्पादकत्वात् तस्य, नहि यादृशी मृते स्निग्धता | तादशी क्षीरे रश्यत इत्यनुभव एवात्र साक्षी, चतुर्थस्य तस्यां वनस्पतिजनकत्वं, पञ्चमस्य वनस्पतिषु स्वस्खयोग्यरसविशेषजनकत्वं, यद्यप्यमृतमेघतो बनस्पतिसम्भवे वर्णादिसम्पत्तौ तत्सहचारित्वात् रसस्यापि सम्पत्तिस्तस्मादेव युक्तिमती तथापि स्वस्खयोग्यरस विशेषान् सम्पादयितुं रसमेघ एवं प्रभुरिति, तदा च यादृशं भरतं भावि तथा चाह'तए णं भरहे वासे'इत्यादि, ततः उक्तस्वरूपपञ्चमेघवर्पणानन्तरं णमिति पूर्ववत् भारतं वर्ष भविष्यति, कीहश-18 |मित्याह-मरूढा-उगता वृक्षा गुच्छा गुल्मा लता वल्यस्तृणानि पर्वजा हरितानि औषधयश्च यत्र तत्तथा, अत्र समासे || कप्रत्ययः, एतेन वनस्पतिसत्ताऽभिहिता, उपचितानि-पुष्टिमुपगतानि त्वक्पत्रप्रवालपल्लवांकुरपुष्पफलानि समुदि-18 तानि-सम्यक् प्रकारेण उदयं प्राप्तानि यत्र तत्तथा तान्तस्य परनिपातः प्राकृतत्वात् , एतेन वनस्पतिषु पुष्पफलानां || रीतिदेर्शिता, अत एव सुखोपभोग्य-सुखेनासेवनीयं भविष्यति, अत्र वाक्यान्तरयोजनार्थमुपात्तस्य भविष्यतिपदस्य |
अनुक्रम
[१]
श्रीजम्यू. १०
~361