SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------- ------- मूलं [३४-३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति: प्रत सूत्रांक [३४-३६] एवेति, आह-अत्र पालयन्ति अन्तं कुर्वन्ति इत्यादौ भविष्यत्कालप्रयोगे कथं वर्तमाननिर्देशः, उच्यते, सर्वास्वप्यवसर्पिणीषु पञ्चमसमासु इदमेव स्वरूपमिति नित्यप्रवृत्तवर्तमानकाले वर्तमानप्रयोगः, यथा द्वे सागरोपमे शको राज्यं । कुरुते इत्यादौ, तर्हि दुःपमासमा कालः प्रतिपत्स्यते इत्यादिप्रयोगः कथमिति चेत्, उच्यते, प्रज्ञापकपुरुषापेक्षयैतत्प्रयोगस्यापि साधुत्वात्, पुनरपि तस्यां किं किं वृचमित्याह-तीसे ण'मित्यादि, तस्या दुष्पमानाच्याः समायाः पश्चिमे त्रिभागे वर्षसहस्रसप्तकप्रमाणेऽतिक्रामति सति न तु अवशिष्टे तथा सति एकविंशतिसहस्रवर्षप्रमाणश्रीवीर-15 तीर्थस्यान्युच्छित्तिकालस्यापूर्तेः गणः-समुदायो निजज्ञातिरितियावत् तस्य धर्मः-स्वस्वप्रवर्तितो व्यवहारो विवाहा-15 दिकः पाखण्डाः-शाक्यादयस्तेषां धर्मः प्रतीत एवं राजधर्मो-निग्रहानुग्रहादिः जाततेजा:-अग्निः, स हि नातिस्निग्धे सुषमसुषमादौ नातिरूक्षे दुष्पमदुष्पमादौ चोत्पद्यत इति, चकारादग्निहेतुको व्यवहारो रन्धनादिरपि, चरणधर्म:-चारिधर्मः, चशब्दाद् गच्छब्यवहारश्च, अत्र धर्मपदव्यत्ययः प्राकृतत्वात् , व्युच्छेत्स्यति-विच्छेदं प्राप्स्यसि, सम्यक्त्वधर्मस्तु केपाश्चित्सम्भवत्यपि, बिलवासिनां हि अतिक्लिष्टत्वेन चारित्राभावः, अत एवाह प्रज्ञत्यां-'ओसणं धम्मसन्न-1 पभडा' इति, ओसन्नमिति प्रायोग्रहणात् कचित्सम्यक्त्वं प्राप्यतेऽपीति भावः, गतः पञ्चम आरः ॥ अथ पष्ठारक | | उपक्रम्यते-तीसे ण'मित्यादि, तस्यां समायां एकविंशत्या वर्षसहस्त्रैः प्रमिते काले व्यतिकान्ते अनन्तैर्वर्णपर्यवरेवं गन्धस्पर्शपर्यवैर्यावत् परिहीयमाणः २, दुष्षमादुषमा नाम्ना समा कालः प्रतिपत्स्यते हे श्रमण! हे आयुष्मन् !, अथ दीप अनुक्रम [४७-४९]] ~345
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy