SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ---------------------- -------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति: णमो अरिहंताण'मित्यादि, अस्य च व्याख्या संहितादिक्रमेण, तत्रास्खलितसूत्रपाठः संहिता, सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय च पदादयो व्याख्याभेदाः प्रवर्तन्त इति, तत्र पदानि नमः अहन्यः इति, एवं पदकरणे सूत्रालापकनिष्पन्ननिक्षेपावसरः, तत्र नमस्कारस्य नामादिभिश्चतुर्दा निक्षेपः, तत्र नामनमस्कारो नम इत्यभिधानं, स्थापनानमस्कारो नमस्कारकरणप्रवृत्तख संकोचितकरचरणस्य काठपुस्तचित्रादिगतः साध्वादेराकारः, द्रव्यनमस्कार आगमतो नोआगमतश्च, तत्रागमतस्तदर्थ|ज्ञाताऽनुपयुक्तः, नोआगमतो शरीरभव्यशरीरनमस्कारौ प्रतीतो, ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यनमस्कारो निह-18 वादीनां, तेषां मिथ्याष्टित्वेनाप्रधानत्वात् , सम्यग्दृष्टेरप्यनुपयुक्ततया नमस्कुर्वतो द्रव्यनमस्कारः, राजादेव्यार्थ वा नमस्करणं तस्यैव वा भयादिना द्रमकादेमस्करणं बलवन्नरपुरुषाक्रान्तस्य धनुरादेवीभावो वा द्रव्यनमस्कारः, भाव-18 नमस्कारोऽपि आगमतो नोआगमतच, तत्र आगमतस्तदर्थज्ञातोपयुक्तो, यदा तु मनसोपयुक्तो बचनेन नमोऽर्हच इति ब्रुवाणः कायेन तु सङ्कोचितकरचरणो नमस्कारं करोति तदा नोआगमतो भावनमस्कारः, अनेन चानाधिकारः, अथ ॥ अर्हन-जिनः सोऽपि नामादिभेदैश्चतुर्की, ते च नामादयो भेदाः-"नामजिणा जिणनामा ठवणजिणा पुण जिणिदपडिमाओ । दवजिणा जिणजीबा भावजिणा समवसरणत्था ॥१॥" अनया गाथया अवगन्तव्याः, अत्र प्रकारान्तरे नामजिना जिननामानि स्थापनाजिना जिनेन्द्रप्रतिमाः पुनः । द्रव्यजिना जिनजीचा भावजिनाः समवसरणस्थाः ॥ १॥ eesesesecceedesesesese SOOS90090050sal 'नमो' एवं 'अरहंत' शब्दस्य नामादि निक्षेपा: ~30
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy