SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [३०] दीप अनुक्रम [४३] “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [३०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः दिवसपाश्चात्यभागस्यानुपपत्तेः त्यक्त्वा हिरण्यं-अघटितं सुवर्ण रजतं वा सुवर्ण-घटितं हेम हेम वा कोशं भाण्डागारं कोष्ठागारं धान्याश्रयगृह, बलं चतुरङ्गं वाहनं - वेसरादि पुरान्तःपुरे व्यक्ते विपुलं धनं- गवादि कनकं च सुवर्णं ( रमन्ते रज्यन्ते ग्राहका) येभ्यः सल्लक्षणेभ्यस्तानि रत्नानि मणयश्च प्राग्वत्, मौक्तिकानि - शुक्त्याकाशादिप्रभवानि, शङ्खाश्च-दक्षिणावर्त्ताः ततः पूर्वपदेन कर्मधारयः, शिला- राजपट्टादिरूपाः, प्रवालानि - विद्रुमाणि रक्तरलानि-पद्मरागाः, पृथग्ग्रहणमेषां प्राधान्यख्यापनार्थं, उक्तस्वरूपं यत्सत्सारं सारातिसारं स्वापतेयं द्रव्यं तत् त्यक्त्वा - ममत्वत्यागेन विच्छ- पुनर्ममत्वाकरणेन, कुतो ममत्वत्याग इत्याह-विगोप्य जुगुप्सनीयमेतत् अस्थिरत्वादिति कथनेन, ( निश्रां त्याज(यित्वा ) कथं च निश्रात्याजनमित्याह - 'दायिकानां ' गोत्रिकाणां 'दायं' धनविभागं 'परिभाज्य' विभागशो दत्त्वा, तदा च निर्नाथपान्थादियाचकानामभावाद् गोत्रिकग्रहणं, तेऽपि च भगवत्प्रेरिता निर्ममास्सन्तः शेषामात्रं जगृहु:, १ गोत्रिकाणां दानं तच्छेषामाश्रमेव, न पुनर्वाचना, यतु यथेप्सितं याचमानानां दानं तथाचकानामेव नान्येषां नतु तीर्थकृतां पुरस्ताद्याचने कि बाध कमिति चेत्, उच्यते, भिक्षा तावत्रिधा - सर्वसंपत्करी १ आजीविका २ पौरुपनी ३ चेति तत्राया साधूनामेव द्वितीया यात्रां विना यनिर्वाहकाणां निर्द्धनानां पंग्वादीनां तृतीया तद्यतिरिकानां येन यात्रां बिना निर्वाहकरणसमर्थानां गृहस्थानां महापुरुषेभ्योऽपि याचनमनुचितमेव, अत एव श्रीमहावीर दानाधिकारसूत्रे 'दानं दायारेहिं 'ति पदमधिकं याचकमहणार्थ, तेन याचकानां यथेप्सिततयोचितदानं इतरेषां तु कुलादिक्रमायातं वर्षांप निकाप्राणकशेषादिकल्पमव सातव्यं, न पुनः सकललोकसाधारणं, प्राकार्ना नामग्रहमे इम्यादीनामनुचत्वात् तथा हि-तए भगवं का िजाय मागहओ पायरासोत्ति, बहू सपाहाण य अगाहाण व पंथिआण य पहिआण य कोरडिआण व कप्पढिक्षण व जाय एगा हिरण्णकोडि' इत्यादि श्री आवश्यकचून । ( इति ही वृत्ती) Furwale rely ~ 295~
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy