________________
आगम
(१८)
प्रत
सूत्रांक
[३०]
दीप
अनुक्रम
[४३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [३०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री -
या वृचि:
॥१३६॥
भावप्रधानो निर्देश इति महाराजत्वेन साम्राज्येन वासः - अवस्थानं तन्मध्ये वसति, तत्र वसंश्च कथं प्रजा उपचक्रे | इत्याह-'तेबहिं' इत्यादि, त्रिषष्टिं पूर्वलक्षाणि यावत् महाराजवासमध्ये वसन् लिपिविधानादिका गणितं-अङ्कविद्या ध| र्मकर्मव्यवस्थितौ बहूपकारित्वात् प्रधाना यासु ताः शकुनरुतं-पक्षिभाषितं पर्यवसाने प्रान्ते यासां तास्तथा, द्वासप्तति| कलाः, कलनानि कला विज्ञानानी त्यर्थस्ताः कलनीय भेदात् द्वासप्ततिः अर्थात्, प्रायः पुरुषोपयोगिनीः, चतुःषष्टिं महिलागुणान् स्त्रीगुणान्, कर्म्मणां जीवनोपायानां मध्ये शिल्पशतं च विज्ञानशतं च कुम्भकारशिल्पादिकं त्रीण्यप्येतानि वस्तूनि प्रजाहिताय - लोकोपकारायोपदिशति, अपिशब्द एकोपदेशकपुरुषतासूचनार्थः, वर्त्तमाननिर्देशश्चात्र सर्वेषामाद्यतीर्थङ्कराणामयमेवोपदेशविधिरिति ज्ञापनार्थं, यद्यपि कृषिवाणिज्यादयो बहवो जीवनोपायास्तथापि ते पश्चात्काले प्रादु| र्बभूवुः भगवता तु शिल्पशतमेवोपदिष्टं अत एवाचार्योपदेशजं शिल्पमनाचार्योपदेशजं तु कर्मेति शिल्पकर्म्मणोर्विशेषमामनन्तीति, श्रीहेमसूरिकृतादिदेवचरित्रे तु 'तृणहारकाष्ठहार कृषिवाणिज्यकान्यपि । कर्माण्यासूत्रयामास, लोकानां | जीविताकृते ॥ १ ॥ इत्युक्तमस्ति तदाशयेन तु कर्म्मणामित्यत्र द्वितीयार्थे पछी ज्ञेया, तथा च कर्माणि जघन्यमध्य|मोत्कृष्ट भेदतस्त्रीण्यप्युपदिशतीत्यपि व्याख्येयं शिल्पशतं च पृथगेवोपदिशतीति ज्ञेयमिति, अथात्र सूत्रे सङ्क्षेपतः प्रोचा विस्तरतस्तु श्रीराजप्रश्नीयादिसूत्रादर्शेषु दृश्यमाना द्वासयतिकलास्तत्पाठोपदर्शनपूर्वकं वित्रियन्ते, यथा- "लेहं १ गणिअं २ रूवं ए नई ४ गीअं ५ वाइअं ६ सरगयं ७ पोक्खरगयं ८ समता ९ जूअं १० जणवार्य ११ पासयं १२
Fur Frate&ione Oy
~284~
२वक्षस्कारे कलादि ऋ षभदीक्षाच सू. ३०
॥१३६॥