SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२३-२४] दीप अनुक्रम [ ३६-३७] “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [२३-२४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः Eikeitim लोप इति । ' अस्थि ण' मित्यादि, माता या प्रसूते पिता यो बीजं निषिक्तवान् भ्राता यः सहजातो भगिनी सहजाता भार्या - भोग्या जन्यः पुत्रः जन्या स्त्री दुहिता स्नुषा-पुत्रवधूः, अत्र भगवानाह - हन्तेत्यादि, नैव चः पुनरर्थे तेषा मनुजानां तीव्रं उत्कटं प्रेमरूपं बन्धनं समुत्पद्यते, तथाविधक्षेत्रस्वभावात् प्रतनुप्रेमबन्धास्ते युग्मिन इति, ननु चतुर्षु कुटुम्बमनुष्येषु स्नुषासम्बन्धो यथा आपेक्षिकस्तथा भ्रातृव्यभागिनेयादिसम्बन्धः कथं न सम्भवी १, उच्यते, कुबेरदत्तकुबेरदत्तास्वकभाववत् सोऽप्युपलक्षणाद् ग्राह्यः परं स्फुटव्यवहारत्वेनेम एव सम्बन्धाः, 'अत्थि ण' मित्यादि, अरिःसामान्यतः शत्रुः वैरिको-जातिनिबद्धबैरोपेतः घातको - योऽन्येन घातयति वधकः-स्वयं हन्ता व्यथको वा-चपेटादिना ताडकः प्रत्यनीकः - कार्योपघातकः प्रत्यमित्रो - यः पूर्वं मित्रं भूत्वा पश्चादमित्रो जातः अमित्रसहायो वा १, इहाचार्य :-नायमिति, यतो व्यपगतो वैरजन्योऽनुशयः - पश्चात्तापो येभ्यस्ते तथा, वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते इति । 'अत्थि ण' मित्यादि, अत्र मित्रं - स्नेहास्पदं वयस्यः - समानवयाः गाढतर स्नेहास्पदं ज्ञातकः-स्वज्ञातीयः यद्वा ज्ञातक:संवासादिना ज्ञातः सहजपरिचित इत्यर्थः सङ्घाटिक :- सहचारी सखा- समानखादनपानो गाढंतमस्नेहास्पदं सुहृद्| मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च साङ्गतिकः-सङ्गतिमात्रघटितः, इन्तेत्यादि पूर्ववत्, न चैव तेषां मनुजानां तीव्रं रागरूपं बन्धनं समुत्पद्यते । 'अत्थि ण' मित्यादि, अत्र चाह - आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाहो - विवाहात् पूर्वं ताम्बूलदानोत्सवः विवाहः - परिणायनं यज्ञः - प्रतिदिवस स्वस्वेष्टदेवतापूजा श्राद्धं पितृक्रिया Fur Ervale & Pulse Oxy ~257~
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy