SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], --------------------------------------------------------- मलं [१८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति: प्रत सूत्रांक [१८] गाथा: जिज्ञासुस्तन्मूलभूतकालविशेषप्रश्नायोपक्रमते-'एगमेगे'इत्यादि, एकैकस्य मुहूर्तस्य भगवन् ! कियत्य उच्छासाद्धा-18 उच्छासप्रमितकालविशेषा व्याख्याताः, एकस्मिन् मुहूर्ते कियन्त उच्छासा भवन्ति, उच्छासशब्देनात्रोपलक्षण-18 त्वावुच्छासनिःश्वासाः समुदिता गृह्यन्ते, अत्रोत्तरम्-असद्धयेयानां समयप्रसिद्धपटशाटिकापाटनदृष्टान्तप्रज्ञापनीयस्व-18 रूपाणां परमनिकृष्टकालविशेषाणां समयानां समुदया-वृन्दानि तेषां याः समितयो-मीलनानि तासां समागमः-स-1 योग एकीभवनं तेन यत्कालमानं भवतीति गम्यते सा एका जघन्ययुक्तासङ्ख्यातकसमयप्रमाणा आवलिका इति संज्ञया | 1 मोच्यते जिनैरिति शेषः, यद्यप्यसांव्यवहारिकत्वेन समयावलिके उपेक्ष्य प्रश्नसूत्रे मुहूर्वोच्छ्रासादिपृच्छा तथापि केवलिप्रज्ञायाः यावदवधिपर्यन्तं धावनादुच्छासादीनां तन्निरूपणाधीननिरूपणत्वाचाचार्यस्य तयोनिरूपणं युक्तिम-1 दिति, नन्वेतवुत्लवमानमण्डूकैगोंकलिञ्जभरणे यतः पूर्वसमयसदावे उत्तरसमयस्यानुत्पन्नत्वेनोत्तरसमयसमा पूर्वस-1 मयस्य विनष्टत्वेन किमिह समुदयसमितिसमागमः सङ्गच्छते येनासङ्ग्याततत्पिण्डात्मकता आवलिकादीनां प्रोच्यते 1,18 IS अयं हि समुदयादिधर्मो विमानस्निग्धरूक्षपुद्गलादीनां न कालस्येति, सत्यं, यं यं कालविशेष प्ररूपयितुकामेन प्रज्ञा-ISI पकपुरुषविशेषेण यावन्तो यावन्तः समया एकज्ञानविषयीकृतास्तावन्तस्ते समुदयसमितिसमागता उपचर्यन्ते, अत एवायमौपाधिकः कालो न वास्तव इति न काचिदनुपपत्तिः, सोया आवलिका उच्छासः-अन्तर्मुखः पवनः सोया आवलिका निःश्वासो-बहिर्मुखः पवनः, सङ्ख्येयत्वोपपत्तिश्चैवम्-षट्पञ्चाशदधिकशतद्वयेनावलिकानामेकं शुल दीप अनुक्रम [२२-२६] ~191~
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy