________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार -,------------------------
----------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
बीयत इति नानौचितीलेशोऽपीति सर्व सुस्थ इति शास्त्रप्रस्तावना ॥ 8 तस्य चानुयोगस्य फलादिद्वारमरूपणतः प्रवृत्तिर्भवति, यत उक्तम्-"तस्स फलजोगमंगलसमुदायत्था तहेव दाराई।
तम्भेयनिरुत्तिकमपओयणाई च वच्चाई ॥१॥" ति, तत्र प्रेक्षावतां प्रवृत्तये तस्य-अनुयोगस्य फलमवश्यं वाच्य, अन्यबाऽस्य निष्फलत्वमाकलय्य व्याख्यातारः श्रोतारश्च कण्टकशाखामईन इव नात्र प्रवर्तेरनिति, तच्च द्विधा-कर्तुः श्रोतुश्च, एकैकमपि द्विधा-अनन्तरं परम्परं च, तत्र कर्तुरनन्तरं द्वीपसमुद्रादिसंस्थानपरिज्ञानेऽतिपरिकर्मितमतिकत्वेन स्पष्टतया । यथासंभवं संस्मरणात् स्वात्मनः सुखेनैव संस्थानविचयाभिधानधर्मध्यानसमवाप्तिर्मन्दमेधसामनुग्रहश्च, श्रोतुः पुनर्जम्बू-11
द्वीपवर्तिपदार्थपरिज्ञानं, परम्परं तु द्वयोरपि मुक्त्यवाप्तिः, यदाह-"सर्वज्ञोकोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति 18| दुःखतताना, स प्रामोत्यचिराच्छिवम् ॥१॥" तथा-"सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियासका ह्यविनेन,
गच्छन्ति परमां गतिम् ॥२॥", तथा योगः-सम्बन्धो वाच्यः, तेन हि ज्ञातेन फलव्यभिचारमनाशङ्कमानाः प्रेक्षावन्तः प्रवर्तन्त इति, स द्विधा-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्र आद्यस्तर्कानुसारिणः प्रति, अनुयोग उपायो
विगमादि चोपेयं, स च फलाभिधानादेवाभिहितः, अन्यश्च केवलनानुसारिणः प्रति, स चैवम्-अर्थतो भगवता 18 वर्द्धमानस्वामिना जम्बूद्वीपप्रज्ञप्तिरुक्ता सूत्रतो गणधरैर्द्वादशाक्यामुपनिबद्धा, ततोऽपि मन्दमेधसामनुग्रहाय सातिशय
श्रुतधारिभिः षष्ठादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापिता, अमुमेव च सम्बन्धमनुविचिन्त्य सूत्रकृदुपोद्घातमाधास्यति
RONG92929090sasasawa
T
saet
प्रास्ताविक-कथनं
~16