________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- तिवृत्तिः (मल०
प्रत
प्राभृते प्राभृतप्राभूत
पूर्ववत् स्वयं परिपूर्ण परिभावनीयं तत्थ ण'मित्यादि, तत्र जम्बूद्वीपे णमिति प्राग्वत् , 'अयं भारहे चेक रिप इति | सर्वबाह्यस्य मण्डलस्य दक्षिणस्मिन्नर्द्धमण्डले यश्चारं चरितुमारभते स भरतक्षेत्रप्रकाशकत्वादारत इत्युच्यते, यस्त्वितर-1 स्तस्यैव सर्ववाह्यस्य भण्डलस्योत्तरस्मिन्नमण्डले चारं चरति स ऐरावतक्षेत्रप्रकाशकत्वादैरावतः, तत्रार्य प्रत्यक्षत उपलभ्यमानो जम्बूद्वीपस्य सम्बन्धी भारतः सूर्यो यस्मिन् मण्डले परिभ्रमति तत्तन्मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा-8 विभज्य चतुर्विशत्यधिकशतसकलान् भागान् तस्य २ मण्डलस्य परिकल्प्येत्यर्थः, सूर्यश्च प्राचीनापाचीनायतया उदगदक्षिणायतया च जीवया-प्रत्यया दवरिकया इत्यर्थः, तन्मण्डलं चतुर्भािगविभज्य दक्षिणपौरस्त्ये दक्षिणपूर्व आग्नेये| कोणे इत्यर्थः 'चम्भागमंडलंसि'त्ति प्राकृतत्वात्पदव्यत्ययो मण्डलचतुर्भागे-तस्य तस्य मण्डलस्य चतुर्थे भाये सूर्यसंवत्सरसत्कद्वितीयषण्मासमध्ये द्विनवति सूर्यगतानि-द्वानवतिसङ्ग्यानि मण्डलानि स्वयं सूर्येण गतानि-चीर्णानि, किमुक्त भवति :-पूर्व सर्वाभ्यन्तरान्मण्डलान्निष्कामता स्वचीर्णानि प्रतिचरतीति गम्यते, एतदेव व्याचष्टे-'जाई. सरिए अप्पणा चिण्णं पडियर' इति यानि सूर्य आत्मना-स्वयं पूर्व सर्वाभ्यन्तरान्मण्डलानिष्क्रमणकाळे इतिशेषा, चीर्णानि प्रतिचरति, तानि च द्विनवतिसक्दानि मण्डलानि चतुर्भागरूपाणि चीर्णानि प्रतिचरति, न परिपूर्णचतुर्भागमात्राणि, किन्तु स्वस्वमण्डलगतचतुर्विशत्यधिकशतसत्काष्टादशाष्टादशभागप्रमितानि, ते चाष्टादशाष्टादशभागा न सर्वव्यापि मण्ड- H लेषु प्रतिनियते एक देशे, किन्तु कापि मण्डले कुत्रापि, केवलं दक्षिणपौरस्त्यरूपचतुर्भागमध्ये ततो 'दाहिणपुरस्थिमसिपउभागमंडलंसी'त्युक्तम्, पवमुत्तरेष्वपि मण्डलचतुर्भागवष्टादशभागप्रमितत्वं भावनीय, स एव भारतः सूर्यस्तेषामेष
अनुक्रम
[૨૮]
॥२२॥
~57~