________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१८], --------------------प्राभृतप्राभूत , -------------------- मूलं [९४-९५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[९४-९५]]
काछत्रातिच्छनकलितं तुई-उच्चमत एव 'गगणतलमणुलिहंतसिहरे'त्ति गगनतलं-अम्बरतलमनुलिखत्-अभिलङ्गम्यत् | शिखरं यस्य तत् गगनतलानुलिखशिखरं, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्तानि यत्र तत् जालान्तररलं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्जरात् उन्मीलितमिव-बहिष्कृतमिव पञ्जरोन्मीलितं, यथा हि किल किमपि वस्तु पञ्जरात्-वंशादिमयपच्छादनविशेषाद् बहिष्कृतमत्यतिमविनष्टच्छायत्वात् शोभते एवं तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं यस्य तत् मणिकनकस्तूपिकाकै, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्च |भित्त्यादिषु पुण्डाणि रत्नमयाश्चार्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रं, तथा अन्तपहिश्च श्लक्ष्णं मसूणमित्यर्थः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्याः बालुकायाः-सिकतायाः प्रस्तटा-प्रतरो यत्र तत्तथा, तथा सुखस्पशै शुभस्पर्श वा तथा सश्रीकाणि-सशोभानि रूपाणि-नरयुग्मादीनि यत्र तत् सश्रीकरूपं तथा प्रसादीयमनःप्रसादहेतुः अत एव दर्शनीयं-द्रष्टुं योग्य, तद्दर्शनेन तृप्तेरसम्भवात् , तथा प्रतिविशिष्ट-असाधारण रूपं यस्य । तत्तथा, 'एवं सूरविमाणेची' त्यादि, यथा चन्द्रविमानस्वरूपमुक्तमेवं सूर्यविमानं ताराविमानं च वक्तव्यं, प्रायः सर्वे पामपि ज्योतिर्विमानानामेकरूपत्वात् , तथा चोक्त समवायाङ्गे-"केवइयाणं भंते जोइसियावासा पण्णता?, गोयमा इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ सत्तनल्याई जोयणसयाई उखु उप्पइत्ता दसुत्तरजोयणसयवाहल्ले तिरियमसंखेजे जोइसविसए जोइसियाण देवाणं असंखेजा जोइसियविमाणावासा पन्नत्ता, ते णं जोइसिय
324
दीप अनुक्रम [१२७-१२८]
Fhi
waliSDHRUTH
~540~