________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७९]]
दीप अनुक्रम [१११]
जातानि नव शतानि पप्ठ्यधिकानि ९६०, तेषां द्वापष्ट्या भागो हियते, लब्धाः पञ्चदश मुहर्ताः १५, ते मुहर्तराशी प्रक्षि-18 लाप्यन्ते, जातानि मुहूर्तानामष्टौ शतानि पञ्चाशीत्यधिकानि ८८५, शेषाश्चोद्धरन्ति त्रिंशत् द्वाषष्टिभागा मुहूर्तस्य, एतदेव ।। प्रतिविशेषावबोधार्थ वैविक्त्येन स्पष्टयति-'ता दोसिणाओ'इत्यादि, ता इति पूर्ववत् , ज्योत्स्नाप्रधानः पक्षो ज्योत्स्ना
पक्षः शुक्लपक्ष इत्यर्थः तस्मात् अन्धकारपक्षमयमानो गच्छन् चन्द्रः चत्वारि मुहूर्तशतानि द्विचत्वारिंशानि-द्विचत्वादारिंशदधिकानि पट्चत्वारिंशतं च द्वापष्टिभागान मुहूर्तस्य वावदपवृद्धि गच्छतीति वाक्यशेषः, यानि यथोक्तसङ्ख्याकानि
मुहूर्त्तशतानि यावचन्द्रो राहुषिमानप्रभया रज्यते, कथं रयते ? इति तमेव रागप्रकारं तद्यथेत्यादिना प्रकटयति, प्रध-IA PIमाया-प्रतिपक्षणायां तिथी परिसमानुषत्या प्रथम-परिपूर्ण पञ्चदशं भाग यायव्यते, द्वितीयायां परिसमाप्तवत्या तिथी
परिपूर्ण द्वितीयं पञ्चदशं भागं यावत् , एवं यावत्पञ्चदश्यां तिथौ परिसमाप्तवत्यां परिपूर्ण पञ्चदश भार्ग यावद्ग्यते. तस्याश्च पश्चदश्यास्तिधेश्वरमसमये चन्द्रः सर्वात्मना राहुविमानप्रभया रक्तो भवति, तिरोहितो भवतीति तात्पर्याधः, यस्तु पोडशो भागो द्वापष्टिभागद्वयात्मकोऽनावृतस्तिष्ठति स स्तोकत्वाददृश्यत्वाच्च न गण्यते, 'अबसेसे इत्यादि, तं च पञ्चदश्यास्तिथेश्चरमसमयं मुक्त्वा अन्धकारपक्षप्रथमसमयादारभ्य शेषेषु सर्वेष्वपि समयेषु चन्द्रो रको भवति विरक्तश्च, कियानंशस्तस्य राहुणा आवृतो भवति कियांश्चानावृत इति भावः, अन्धकारपक्षवक्तव्यतोपसंहारमाह-'इयाण'मित्यादि, इयमन्धकारपक्षे पञ्चदशी तिथिः णमिति वाक्यालङ्कारे अमावास्या-अमावास्या नानी अत्र युगे प्रथम पर्व अमावास्या, | इह मुख्यवृत्त्या पर्वशब्दस्याभिधेयममावास्या पौर्णमासी च, उपचारात् पक्षे पर्वशब्दस्य प्रवृत्तिस्तत उक्तम्-"एस्थ णं
Ft.PraMAPINEMORE
~482