________________
आगम
(१७)
प्रत
सूत्रांक
[66]
दीप
अनुक्रम [१०९ ]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
मूलं [७७]
प्राभृत [१२], प्राभृतप्राभृत [ - ], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
Jan Eiration intamate
चतुर्विशत्यधिकेन शतेन द्वौ मुहत्तों लब्धी पश्चात् स्थिताः पञ्चविंशतिद्वषष्टिभागाः, लब्धौ च मुहत्तौं मुहर्त्तराशी प्रक्षिप्येते, जाता पडशीतिर्मुहूर्त्तानां ततः पश्चसप्तत्या मुहूर्त्तानां रेवत्यश्विनीभरण्यः शुद्धाः स्थिताः पश्चादेकादश मुहूर्त्ताः, | शेषं तथैव ११ । २५ | ६१ तत आगतं - कृतिका नक्षत्रस्याष्टादशसु मुहूर्त्तेषु एकस्य च मुहर्त्तस्य पत्रिंशति द्वाषष्टिभागेध्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषेषु पञ्चमी हैमन्ती आवृत्तिः प्रवर्त्तते, सूर्यनक्षत्रयोगविषये च प्रश्ननिर्वचनसूत्रे सुगमे । तदेवमुक्ता दशापि नक्षत्रयोगमधिकृत्य सूर्यस्यावृत्तयः सम्प्रति चन्द्रस्य वक्तव्यास्तत्र यस्मिन्नेव नक्षत्रे वर्तमानः सूर्यो दक्षिणा उत्तरा या आवृत्तीः करोति तस्मिन्नेव नक्षत्रे वर्त्तमानश्चन्द्रोऽपि दक्षिणा उत्तराश्चावृतीः कुरुते, ततो या उत्तराभिमुखा आवृत्तयो युगे चन्द्रस्य दृष्टास्ताः सर्वा अपि नियतमभिजिता नक्षत्रेण सह योगे द्रष्टव्याः यास्तु दक्षिणाभिमुखास्ताः पुष्येण योगे, उक्तं च- "चंदस्सवि नायबा आउट्टीओ जुगंमि जा दिट्ठा। अभिएणं पुस्सेण य नियमं नक्त्त सेसेणं ॥ १ ॥” अत्र 'नक्खससे सेणं'ति नक्षत्रार्द्धमासेन, शेषं सुगमं तत्राभिजित्युत्तराभिमुखा आवृत्तयो भाव्यन्ते, यदि चतुखिंशदधिकेनायनशतेन चन्द्रस्य सप्तषष्टिर्नक्षत्र पर्याया लभ्यन्ते ततः प्रथमेऽयने किं लभ्यते १, राशित्रयस्थापना - १३४ । ६७ । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः सप्तषष्टिरूपस्य गुणनं जाता सप्तषष्टिरेव 'एकेन गुणितं तदेव भवतीति वचनात् तस्याश्च सप्तषष्टेश्चतुस्त्रिंशदधिकेन शतेन भागे हुते लब्धमेकमर्थं पर्यायस्थ, तस्मिंश्चाद्धे नव शतानि पञ्चदशोत्तराणि सप्तषष्टिभागानां भवन्ति, तत्र त्रयोविंशती सप्तषष्टिभागेषु पुष्यनक्षत्रस्य भुक्तेषु | दक्षिणायनं चन्द्रः कृतवान् ततः शेषाश्चतुश्चत्वारिंशत् सप्तषष्टिभागा अनन्तरोदितराशेः शोध्यन्ते, स्थितानि शेषाणि
F&P U One
~476~