________________
आगम
(१७)
प्रत
सूत्रांक [63]
दीप
अनुक्रम
[१०४]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
मूलं [७३]
प्राभृत [१२], प्राभृतप्राभृत [ - ], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Jan Eiration Intimanal
मुहूर्त्तस्य, येऽपि च षट्पञ्चाशत्सप्तषष्टिभागा मुहूर्त्तस्य ते त्रैराशिकेन द्वाषष्टिभागा एवं क्रियन्ते – यदि सप्तषष्ट्या द्वाष्टिभागा लभ्यन्ते ततः षट्पञ्चाशता सप्तषष्टिभागैः कियन्तो द्वाषष्टिभागा लभ्यन्ते, राशित्रयस्थापना ६७ । ६२ । ५६ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि चतुस्त्रिंशच्छतानि द्वासप्तत्यधिकानि २४७२, तेषामादिराशिना सप्पया भागो हियते, लब्धा एकपञ्चाशद् द्वाषष्टिभागाः, ते च प्रागुकेषु पश्चाशति द्वाषष्टिभागेष्यन्तः प्रक्षिप्यन्ते, जातमेकोत्तरं शतं १०१, ततस्तन्मध्येऽभिवर्द्धितसंवत्सरसत्का उपरितना अष्टादश द्वाषष्टिभागाः प्रक्षिप्यन्ते, जातमेकोनविंशत्यधिकं शतं द्वाषष्टिभागानां ११९, शेषास्तिष्ठन्ति पञ्चपञ्चाशत् द्वारष्टिभागस्य सप्तषष्टिभागाः पणे द्वाषष्ट्या च द्वाषष्टिभागैरेको मुद्दतों लब्धः, स प्रागुकेष्वष्टादशसु मुहर्त्तेषु मध्ये प्रक्षिप्यते, जाता एकोनविंशतिर्मुहूर्त्ताः १९, शेषाः सप्तपञ्चाशत् द्वाषष्टिभागा अवतिष्ठन्ते इति, 'ता से णमित्यादि, मुहूर्त्तपरिमाणविषयप्रश्वसूत्रं निर्वचनसूत्रं च सुगमं, रात्रिन्दिवपरिमाणस्य त्रिंशता गुणने तदुपरि शेषमुहूर्त्तप्रक्षेपे च यथोक्त मुहूर्त्तपरिमाणसमागमात् ता केवइए णं ते इत्यादि, ता इति पूर्ववत्, कियता रात्रिन्दिवपरिमाणेन तदेव नोयुगं युगप्राप्तमाख्यातमिति यदेत् । कियत्सु रात्रिन्दिवेषु प्रक्षिष्ठेषु तदेव नोयुगं परिपूर्ण युगं भवतीति भावः, भगवानाह - 'ता अट्ठत्तीसमित्यादि, अष्टात्रिंशद् रात्रिन्दिवानि दश मुहूर्त्ता एकस्य च मुहूर्त्तस्य चत्वारो द्वापष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छिपया तस्य सरका द्वादश चूर्णिका भागा इत्येतावता रात्रिन्दिवपरिमाणेन युगप्राप्तमाख्यातमिति वदेद, एतावत्सु रात्रिन्दिवादिषु प्रक्षिप्तेषु तद् नोयुगं परिपूर्ण युगं भवति इति भावः । सम्प्रति तदेव नोयुगं मुहूर्त्तपरिमाणात्मकं यावता मुहूर्त्तपरिमाणेन प्रक्षिशेन परिपूर्ण युगं भवति तद्वि
F
~426~