________________
आगम
(१७)
प्रत
सूत्रांक
[ ६९ ]
दीप
अनुक्रम [१०० ]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [२२],
मूलं [ ६९ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Eatont
गतित्वात्, ततो नवानां मुहूर्त्तानामेकस्य च मुहर्त्तस्य चतुर्विंशतेर्द्वाषष्टिभागानामेकस्य च द्वाष्टिभागस्व पटूप स ष्टिभागानामतिक्रमे पुरतः श्रवणेन सह योगमायाति, ततस्ततोऽपि शनैः शनैः पश्चादवष्वष्कमानस्त्रिंशता मुहूः अदणेन सह योगं समाप्य पुरतो घनिष्ठया संह योगमुपगच्छति, एवं स्वं स्वं कालमाचक्ष्य सर्वैरपि नक्षत्रैः सह योगस्ताच वक्तव्यो यावदुत्तराषाढा नक्षत्रयोगपर्यन्तः, एतावता च कालेनाष्टी मुहूर्त्तशतानि एकस्य च मुहूर्त्तस्य चतुर्विंशतिद्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य पट्षष्टिः सप्तषष्टिभागा अभवन्, तथाहि--- पडू नक्षत्राणि पश्चचत्वारिंशम्मुहूर्त्तानीति षट् पञ्चचत्वारिंशता गुण्यंते, जाते द्वे शते सप्तत्यधिके २७०, पट् च नक्षत्राणि पञ्चदशमुहूर्त्तनीति भूयः षण्णां प दशभिर्गुणने जाता नवतिः ९०, पञ्चदश त्रिंशन्मुहूर्त्तानीति पञ्चदश त्रिंशता गुण्यन्ते, जातानि चत्वारि शतानि पञ्चाशदधिकानि ४५०, अभिजितो नव मुहूर्त्ता एकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्ठिः सप्तषष्टिभागा इति भवति सर्वेषामेकत्र मीलने यथोक्ता मुहूर्त्तसङ्ख्या, एष एतावान्, नक्षत्रमासः, ततस्तदनन्तरं यदभिजिनक्षत्रं अतिक्रान्तं तदपरेण द्वितीयेनाभिजिता नक्षत्रेण सह नव मुहूर्त्तादिकालं योगमुपागच्छति, ततः परमपरेण द्वितीयाष्टाविंशतिसम्बन्धिना श्रवणेन सह योगमनुते, एवं पूर्ववत् तावद्वाच्यं यावदुत्तराषाढा, तदनन्तरं भूयः प्रथमेनैवाभिजिता नक्षत्रेण सह योगं याति, ततः प्रागुक्तक्रमेण श्रवणादिभिः, एवं सकलकालमपि ततो विवक्षिते दिने यस्मिन् देशे येन नक्षत्रेणे योगमममञ्चन्द्रमाः स यथोकमुहूर्तमयातिक्रमे भूयः तादृशेनैवापरेण नक्षत्रेण सह अन्यस्मिन् देशे योगमादत्ते न तेनैव नापि तस्मिन् देशे इति, तथा 'ता जेण'मित्यादि, अद्य-विवक्षिते दिने येन नक्षत्रेण सह
F&PO
~ 402~