________________
आगम
(१७)
प्रत
सूत्रांक
[ ६९ ]
दीप
अनुक्रम
[१०० ]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
• प्राभृतप्राभृत [२२],
मूलं [ ६९ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञठिवृत्तिः ( मल० )
॥ १९५॥
योगं युनक्ति यस्मिन् यस्मिन् देशे चन्द्रमाः स इमानि वक्ष्यमाणसङ्ख्याकानि तान्येवाह--- षोडश मुहूर्त्तशतानि अष्टात्रिंशदधिकानि एकोनपञ्चाशतं द्वाषष्टिभागान् मुहूर्त्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा हित्वा तस्य सत्कान् पञ्चषष्टिं चूर्णिकाभागानुपादाय-अतिक्रम्य पुनरपि स चन्द्रस्तेनैव नक्षत्रेण सह योगं युनक्ति, परमन्यस्मिन् देशे, न तु तस्मिन्नेव, कुत इति चेत्, उच्यते, इह भूयस्तस्मिन्नेव देशे तेनैव नक्षत्रेण सह योगो युगद्वयकालातिक्रमे यथार्थः) केवल वेदसा ज्योतिश्चक्रगतेरुपलब्धः, जम्बूद्वीपे च षट्पञ्चाशदेव नक्षत्राणि, ततो विवक्षितनक्षत्रयोगे सति तत आरभ्य पट्पञ्चाशनक्षत्रा- ४ तिक्रमे तेन नक्षत्रेण सह योगमादत्ते, षट्पञ्चाशन्नक्षत्रातिक्रमश्च प्रागुक्ताष्टाविंशतिनक्षत्र मुहूर्त्तसङ्ख्याद्विगुणसाया, तत उक्तं- 'सोलस अडतीस मुहुत्ससया' इत्यादि । तदेवं तादृशेन तेन वा नक्षत्रेण सह अन्यस्मिन् देशे यावता कालेन भूयोऽपि योग उपजायते तावान् कालविशेष उक्तः, सम्प्रति तस्मिन्नेव देशे तादृशेन तेन वा नक्षत्रेण सह भूयोऽपि ४ योगो यावता कालेन भवति तावन्तं कालविशेषमाह-'ता जेणं अज्ज नक्खन्तेणं' इत्यादि, अद्य-विवक्षिते दिने येन नक्षत्रेण सह योगं चन्द्रो युनक्ति यस्मिन् देशे सः- चन्द्रमा इमानि वक्ष्यमाणसङ्ख्याकानि तान्येवाह-चतुष्पञ्चाशन्मुहूर्त्त सहस्राणि नव मुहूर्त्तशताम्युपादाय - अतिक्रम्य पुनरपि स चन्द्रोऽन्येन तादृशेनैव नक्षत्रेण सह योगं युनक्ति तस्मिन्नेव देशे, इयमंत्र भावना-विवक्षिते युगे विवक्षितानामष्टाविंशतेर्नक्षत्राणां मध्ये येन नक्षत्रेण सह यस्मिन् देशे यदा चन्द्रमसो योगो जातो भूयस्तस्मिन्नेव देशे तदैव तेनैव नक्षत्रेण सह योगो विवक्षितयुगादारभ्य तृतीये युगे, न तु द्वितीये, कुत इति चेत्, उच्यते, इह युगादित आरभ्य प्रथमे नक्षत्रमासे यान्येकान्यष्टाविंशर्ति नक्षत्राणि समतिक्रामति द्वितीयेन नक्षत्रमासेन
Jan Eatoninamaal
F&P On
~ 403~
१० प्राभृते
२२ प्राभृतप्राभृते ताइगन्यनक्षत्रयोगः सू. ६९
॥ १९५॥