________________
आगम
(१७)
प्रत
सूत्रांक
[ ६८ ]
दीप
अनुक्रम
[९]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृत [१०],
प्राभृतप्राभृत [२२],
मूलं [ ६८ ]
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यमज्ञसिवृत्तिः
( मल० )
॥१९१॥
स्थिताः पश्चात्रयोदश मुहूर्त्ता, अश्लेषानक्षत्रं वार्द्धक्षेत्रमिति पञ्चदशमुहूर्त्तप्रमाणं तत इदमागतं - अश्लेषा नक्षत्रस्य एकस्मिन् मुहूर्त्ते चत्वारिंशति मुहूर्त्तस्य द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य षट्षष्टिभागेषु शेषेषु प्रख| मामावास्या समाप्तिमुपगच्छति । सम्प्रत्यस्यामेव प्रथमायाममावास्यायां सूर्यनक्षत्रं पृच्छति -- 'तं समयं च णमित्यादि, सुगमं, भगवानाह - 'ता असिलेसाहिं चेवेत्यादि, इह य एवास्याममावास्यायां चन्द्रनक्षत्रयोगे ध्रुवराशिर्यदेव शोधनकं स एव सूर्यनक्षत्रयोगविषयेऽपि ध्रुवराशिस्तदेव च शोधनकमिति तदेव सूर्यनक्षत्रयोगेऽपि नक्षत्रं तावदेव च 'तस्य नक्षत्रस्य शेषमिति, तदेवाह – अश्लेषाभिर्युक्तः सूर्यः प्रथमाममावास्यां परिसमापयति, तस्यां च परिसमाप्तिवेलायामश्लेषाणामेको मुहूर्त्त एकस्य च मुहूर्त्तस्य चत्वारिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः शेषाः । द्वितीयामावास्याविषयं प्रश्नसूत्रमाह- 'ता एएसि ण'मित्यादि सुगमं, भगवानाह - 'ता उत्तराहिं' इत्यादि, उत्तराभ्यां फाल्गुनीभ्यां युक्तः चन्द्रो द्वितीयाममावास्यां परिसमापयति, तदानीं च-अमावास्यापरिसमाप्तिवेलायामुत्तरायाः फाल्गु न्याश्चत्वारिंशन्मुहूर्त्ताः पञ्चत्रिंशद् द्वाषष्टिभागाः मुहर्त्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा तस्य सत्काः पञ्चषष्टिश्भूर्णिका भागाः शेषाः, तथाहि-- स एव ध्रुवराशिः ६६ । ५ । १ । द्वाभ्यां गुण्यते, जातं द्वात्रिंशदधिकं मुहूर्त्तानो शर्त, एकस्य च मुहूर्त्तस्य द्वाषष्टिभागा दश एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य द्वौ चूर्णिकाभागी । १३२ । १०।२ । तत्र प्रथमं पुनर्वसुशोधनकं शोध्यते, द्वात्रिंशदधिकमुहूर्त्तशतात् द्वाविंशतिर्मुहर्त्ताः शुद्धाः स्थितं पश्चादशोत्तरं शतं, तेभ्योऽप्येको मुहर्त्ते गृहीत्वा द्वाषष्टिभागीक्रियते, कृत्वा च ते द्वाषष्टिभागा द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जाता द्विसप्तति
ation Intimational
F&P On
~395~
4
१० प्राभृते
२२ प्राभृत
प्राभृते
अमावास्यानक्षत्राणि
सू ६८
॥१९१॥