________________
आगम
(१७)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१], ------------------ प्राभृतप्राभूत [१], -------------------- मूलं [८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
महावीरे गोयम एवं वयासी-तुम चेव णं तस्स ठाणस्स आलोएहि जाव पडिकमाहि, आणंदं च समणोवासयं एयमई खामेहि, तए ण समणे भगवं गोयमे समणस्स भगवओ महावीरस्स अंतिए एयमझु विणएणं पडिसुणेइ, पडिसुणित्ता तस्स ठाणस्स आलोएइ जाव पडिकमइ, आणदं च समणोवासयं एयमई खामेह' इति, अथवा भगवान् अपगतसंशयोऽपि | शिष्यसम्प्रत्ययार्थं पृच्छति, तथाहि-तमर्थ शिष्येभ्यः प्ररूप्य तेषां सम्प्रत्ययार्थं तत्समक्षं भूयोऽपि भगवन्तं पृच्छतीति. यदिवा इत्थमेव सूत्ररचनाकल्प इति न कश्चिद्दोषः। एवं भगवता गौतमेन प्रश्ने कृते सति भगवान् श्रीवर्द्धमानस्वामी | प्रतिवचनमभिधातुकामः सविशेषबोधाधानाय प्रथमतो नक्षत्रमासे यावन्तो मुहूर्ताः सम्भवन्ति तावतो निरूपयति| 'ता अ?'त्यादि, तावदिति शिष्योक्तपदानुवादः स च न्यायमार्गप्रदर्शनार्थ, तथाहि-सर्वेणापि गुरुणा शिष्येण प्रश्न |कृते सति शिष्यपृष्टस्य पदस्य अन्यस्य वा शिष्योक्तस्य तथाविधस्य पदस्य अनुवादपुरस्सरं प्रतिवचनमभिधातव्यं येन |गुरुषु शिष्याणां बहुमानो भवति-यथाऽहं गुरूणां सम्मत इति, अन्यच्च तावच्छन्दस्यायमर्थः-आस्तामन्यत्प्रतिवक्तव्यमिदानी तावदेव तवाग्रे कथयामि, एतस्मिन्नक्षत्रमासे अष्टौ मुहूर्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य सप्तविंशतिं सप्तषष्टिं भागानहमाख्याता इति स्वशिष्येभ्यो वदेत् , एतेन चैतदावेदयति-इह शिष्येण सम्यगधीतशास्त्रेणापि गुर्वनुज्ञातेन सता तत्त्वोपदेशोऽपरस्मै दातव्यो नान्यथेति, अथ कथमेकस्मिनक्षत्रमासे अष्टौ शतान्ये
कोनविंशत्यधिकानि मुहानामेकस्य च मुहूर्तस्य सप्तविंशतिः सप्तपष्टिभागा इति, उच्यते, इह युगे चन्द्रचन्द्राभिदिवर्जितचन्द्राभिवर्धितरूपसंवत्सरपचकारमके सप्तपष्टिर्नक्षत्रमासाः, युगे चोक्तस्वरूपे अहोरात्राणामष्टादश शतानि त्रिंशद-18
WWEA++ॐकर
अनुक्रम [२२]
~32~