SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ गम (१७) प्रत सूत्रांक [२] दीप अनुक्रम [२१] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृतप्राभृत [१] मूलं [२] प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः गोसेणं सन्तुस्सेहे समवउरंससंठा णसंठिए वारिसह मारायसंघयणे जाव एवं वयासी' इति, तस्मिन् काले तस्मिन् समये, शब्दो वाक्यालङ्कारार्थः, श्रमणस्य भगवतो महावीरस्य ज्येष्ठ इति प्रथमः, अन्तेवासी शिष्यः, अनेन | पदद्वयेन तस्य सकलसङ्गाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतनामधेयः, नामेति प्राकृतत्वात् विभक्तिप रिणामेन नाम्नेति द्रष्टव्यं, अन्तेवासी च किल विवक्षया श्रावकोऽपि स्यात् अतस्तदाशङ्काव्यवच्छेदार्थमाह-'अनगारः' न विद्यते अगारं - गृहमस्येत्यनगारः, अयं च विगीतगोत्रोऽपि स्यादत आह-गौतमो गोत्रेण गौतमाहयगोत्रसमन्वित इत्यर्थः, अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आह- 'सप्तोत्सेधः' सप्तहस्त प्रमाणशरीरोच्ह्रायः अयं चेत्थंभूतो लक्षणहीनोऽपि सम्भाव्येत अतस्तदाशङ्कापनोदार्थमाह-'समचतुरस्त्र संस्थानसंस्थितः समाः-शरीरलक्षणशास्त्रोक्त प्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत्समचतुरस्रं, अस्त्रयस्त्विह चतुर्दिग्रविभागोपलक्षिताः शरीरावयवा द्रष्टव्याः, अन्ये त्वाहुः-समा-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत्समचतुरस्रं, अश्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं १ आसनस्य ललाटोपरिभागस्य चान्तरं २ दक्षिणस्कन्धस्य वामजानुनश्चान्तरं ३ वामस्कन्धस्य दक्षिणजानुनश्चान्तर ४ मिति, अपरे त्वाहुः- विस्तारोत्सेधयोः समत्वात् समचतुरस्रं तच्च तत्संस्थानं च २ संस्थानं - आकारस्तेन संस्थितो- व्यवस्थितो यः स तथा, अयं च हीनसंहननोऽपि केनचित्सम्भाव्येत तत आह-'वज्जरिसहनाराय संघयणे' नाराचं-उभयतो मर्कटबन्धः ऋषभः - तदुपरिवेष्टनपहः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, 'एवं जाव व्यासी' इति, यावच्छन्दोपादानादिदमनुतमप्यवसेयं-'कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे इन्द्रभूतिगौतमस्य वर्णनं F&P Us On ~26~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy