________________
आगम
(१७)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम
[43]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [६],
मूलं [ ३९ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि प्रणीता वृत्तिः
समाप्तिमुपयाति ?, तत्र पूर्वोदितस्वरूपोऽवधार्यराशिः षट्षष्टिर्मुहर्त्ता एकस्य च मुहर्त्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इति प्रमाणो ध्रियते, धृत्वा चैकेन गुण्यते, प्रथमाया अमावास्यायाः पृष्टत्वात्, एकेन गुणितं तदेव भवतीति राशिस्तावानेव जातः, ततस्तस्माद् द्वाविंशतिर्मुहर्त्ता एकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागा इत्येवंपरिमाणं पुनर्वसुशोधनकं शोध्यते, तत्र षट्षष्टेर्मुहूर्त्तेभ्यो द्वाविंशतिर्मुहूर्त्ताः शुद्धाः स्थिताः पश्चाच्चतुश्चत्वारिंशत् ४४, तेभ्य एक मुहूर्त्तमपकृष्य तस्या द्वापष्टिर्भागाः क्रियन्ते, कृत्वा च ते द्वाषष्टिभागराशिंमध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टिः, तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्त्येकविंशतिः, त्रिचत्वारिंशतो मुहूर्त्तेभ्यस्त्रिंशता मुहूत्तैः पुष्यः शुद्धः, स्थिताः पश्चात् त्रयोदश मुहूर्त्ताः, अश्लेषानक्षत्रं च द्विक्षेत्रमिति पञ्चदश मुहूर्तप्रमाणं तत इदमागतं - अश्लेषा नक्षत्रमेकस्मिन् मुहूर्त्ते एकस्य च मुहर्त्तस्य चत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तषष्टिघाछिन्नस्य षट्षष्टिसङ्ख्येषु भागेषु शेषेषु प्रथमाSमावास्या समाप्तिमुपगच्छति, तथा च वक्ष्यति 'ता एएसिं पंचहे संवच्छराणं पढमं अमावासं चंदे केणं नक्खत्तेणं जोएइ १, ता असिलेसाहि, असिलेसाणं एको मुहुत्तो चत्तालीसं बावडिभागा मुहुत्तस्स बावट्टिभागं च | सत्तट्ठिहा छेत्ता छावडी चुण्णिआभागा सेसा' इति, यदा तु द्वितीयामावास्या चिन्त्यते तदा सा युगस्यादित आरभ्य त्रयोदशीति स ध्रुवराशिः ६६ ।। । त्रयोदशभिर्गुण्यते, जातानि मुहूर्त्तानामष्टौ शतान्यष्टापञ्चाशदधिकानि ८५८ एकस्य च मुहूर्त्तस्य पञ्चषष्टिर्द्वाषष्टिभागा ६५ एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः १३, तत्र 'चचारि य चायाला अह सोझा उत्तरासादा' इति वचनात् चतुर्भिर्द्विचत्वारिंशदधिकैर्मुह शतैः षट्चत्वारिंशता च द्वापष्टिभागे
F&PO
~256~