SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१७) प्राभत [१०], -------------------- प्राभतप्राभत RI. -------------------- मलं [३४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३४] सिद्धिं जोयं जोएंति ते णं छ, तंजहा-उत्तराभवता रोहिणी पुणवसू उत्तरफग्गुणी विसाहा उत्तरासादा (सूत्रं ३४) दसमस्स वितीयमिति ॥ 'ता एएसि ण'मित्यादि, ता इति पूर्ववत् , एतेषामनन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्येऽस्ति तन्नक्षनं यच्चतुरो|ऽहोरात्रान् षट् च मुहूर्तान् यावत् सूर्येण सार्द्ध योगमुपैति, तथा अस्तीति सन्ति तानि यानि षट् अहोरात्रान् एकवि-1 शतिं च मुहूर्तान् सूर्येण सार्द्ध योग युञ्जन्ति, तथा सन्ति तानि नक्षत्राणि यानि त्रयोदश अहोरात्रान् द्वादश मुहान यावत्सूर्येण सह योगमुपयन्ति, तथा सन्ति तानि नक्षत्राणि यानि विंशतिमहोरात्रान् त्रीन् मुहूर्तान् यावत्सूर्येण समं योग युद्धन्ति, एवं भगवता सामान्येनोक्त विशेषावगमनिमित्तं भूयोऽपि भगवान् गौतमः पृच्छति-'ता एएसि ण'मित्यादि, सुगर्म, भगवान् निर्वचनमाह-ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेनेक्षत्राणां मध्ये यन्नक्षत्रं चतुरोऽहोरात्रान् षट् च मुहूर्तान सूर्येण सार्द्ध योग युनक्ति तदेकमभिजिन्नक्षत्रमवसेयं, तथाहि-सूर्ययोगविषयं पूर्वाचार्यप्रदर्शितमिदं प्रकरण-"ज रिक्खं जावइए वच्चइ चंदेण भाग सत्तड्डी । तं पणभागे राइंदियस्स सूरेण 5 तावइए ॥१॥" अस्या अक्षरगमनिका-यत् ऋक्ष-नक्षत्रं यावतो राबिन्दिवस्य-अहोरात्रस्य सम्बन्धिनः सप्तषष्टिभागान् चन्द्रेण सह योग व्रजति तन्नक्षत्रं रात्रिन्दिवस्य पश्चभागान् तावतः सूर्येण समं ब्रजति, तत्राभिजिदेकविंशतिं । सप्तपष्टिभागान् चन्द्रेण समं वर्त्तते, तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं वर्तमानमवसेयं, एकविंशतिश्च पञ्चमिर्भागे हृते लब्धाश्चत्वारोऽहोराबाः एकः पञ्चमो भागोऽवतिष्ठते, स मुह नयनाय त्रिंशता गुण्यते, जाता त्रिंशत्तस्याः अनुक्रम [४८ ~218~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy