________________
आगम
(१७)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[४५]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृतप्राभृत [-],
· मूलं [३१]
प्राभृत [९], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि प्रणीता वृत्तिः
चतुष्पौरुषी-चतुष्पुरुषप्रमाणां पुरुषग्रहणमुपलक्षणं तेन सर्वस्यापि प्रकाश्यस्य वस्तुनश्चतुर्गुणां छायां निर्वर्त्तयति, अस्ति स दिवसो यस्मिन् दिवसे उद्गमनमुहूर्त्ते अस्तमयमुहूर्त्ते च द्विपौरुषी-द्विपुरुषप्रमाणां छायां सूर्यो निर्वर्त्तयति, अत्रापि पुरुषग्रहणमुपलक्षणं ततः सर्वस्यापि वस्तुनः प्रकाश्यस्य द्विगुणां छायां निर्वर्त्तयतीति द्रष्टव्यं, अत्रोपसंहारः- एगे एवमासु' १, एके पुनरेवमाहुः-ता इति पूर्ववत्, अस्ति स दिवसो यस्मिन् दिवसे उद्गमनमुहूर्त्ते अस्तमयमुहूर्त्ते च सूर्यो द्विपौरुष पुरुषद्वयप्रमाणां छायां निर्वर्त्तयति, पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्यापि प्रकाश्यवस्तुनो द्विगुणां छायां निर्वर्त्तयतीत्यर्थः तथा अस्ति स दिवसो यस्मिन् दिवसे सूर्योऽस्तमयमुद्धर्ते उद्गमनमुहूर्त्ते च न काश्चिदपि पौरुष छायां | निर्वर्त्तयति । सम्प्रत्येते एव मते भावयति--तस्थे'त्यादि, तत्र तेषां द्वयानां मध्ये ये ते वादिन एवमाहुः- अस्ति स दिवसो यस्मिन् दिवसे चतुष्पौरुष छायां सूर्यो निर्वर्त्तयति, अस्ति स दिवसो यस्मिन् दिवसे सूर्यो द्विपौरुषीं छायां निर्वर्त्तयति, एवं स्वमतविभावनार्थमाहु:- 'ता जया ण' मित्यादि, तत्र यदा यस्मिन् काले णमिति वाक्यालङ्कारे सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति तदा उत्तमकाष्ठा प्राप्त उत्कर्षकोऽष्टादशमुहूर्ती दिवसो भवति, जघन्या द्वादशमुहूर्त्ता रात्रिः, तस्मिंश्च दिवसे सूर्यश्चतुष्पौरुषीं चतुष्पुरुषप्रमाणां छायां निर्वर्त्तयति, तद्यथा- उद्गमनमुहूर्त्तेऽस्तमयमुहूर्त्ते च स चोहमनमुहूर्त्तेऽस्तमय मुहूर्त्ते च चतुष्पौरुषीं छायां निर्वर्त्तयति लेश्यामभिवर्द्धयन् प्रकाश्यवस्तुन उपरि प्लवमानां दूरं दूरतरं परिक्षिपन् नो चैव नैव निर्वेष्टयन्- प्रकाश्य वस्तुन उपरिप्लवमानां प्रत्यासन्नं प्रत्यासन्नतरं परिक्षिपन तथा सति छायाया हीनहीनतरत्वसम्भवात्, 'ता जया ण'मित्यादि, तत्र यदा सर्वत्राह्यं मण्डलमुपसङ्क्रम्य चारं चरति तदा उत्तमकाष्ठा
F&P Us On
~206~