SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूर्यप्रज्ञप्तिवृत्तिः (मल.) सू२९ ॥८७॥ पूर्वस्यामपरस्यां च दिशि रात्रिंदिवानि प्रज्ञप्तानि, हे श्रमण ! हे आयुष्मन् !, एतच्च प्रथमानां परतीथिकानां मूलभूत ८प्राभृते स्वशिष्यं प्रत्यामन्त्रणवाक्यं, अत्रैवोपसंहारमाह-एगे एवमाहंसु' १, एके पुनरेवमाहुः-यदा जम्बूद्वीपे द्वीपे दक्षिणेऽ उदयसंस्मिन्नद्धेऽष्टादशमुहर्त्तानन्तरः-अष्टादशभ्यो मुहर्तेभ्योऽनन्तरो-मनाकू हीनो हीनतरो वा यावत्सप्तदशभ्यो मुद्दाभ्यः स्थितिः किञ्चित्समधिकप्रमाणो दिवसो भवति तदा उत्तरार्द्धऽप्यष्टादशमुहूर्तानन्तरो दिवसो भवति, यदा चोत्तराद्धेऽष्टादशमुहर्तानन्तरो दिवसो भवति तदा दक्षिणाऽपि अष्टादशमुहानन्तरो दिवसः, तथा यदा जम्बूद्वीपे द्वीपे दक्षि-II णाढ़े सप्तदशमुहूर्त्तानन्तरो दिवसो भवति तदा उत्तरार्द्धऽपि सप्तदशमुहूर्त्तानन्तरो दिवसः, यदा उत्तरार्दै सप्तदशमुहनिन्तरो दिवसस्तदा दक्षिणाःऽपि सप्तदशमुहूर्त्तानन्तरो दिवसः, 'एवं मित्यादि, एवमुक्तेन प्रकारेण एकैकमुहर्चहान्या परिहातव्यं, परिहानिप्रकारमेवाह-सोलसे'त्यादि, प्रथमतः पोडशमुहन्नन्तरो दिवसो वक्तव्या, ततः पश्चदशमुहत्तो-18 नन्तरस्तदनन्तरं चतुर्दशमुहत्तानन्तरः, ततः त्रयोदशमुहूर्त्तानन्तरः, एतेषां हि मतेन न कदाचनापि परिपूर्णमुहर्तप्रमाणो दिवसो भवति, ततः सर्वत्रानन्तरशब्दप्रयोगः, द्वादशमहूर्त्तानन्तरसूत्रं तु साक्षाद्दर्शयति,-'ता जया 'मित्यादि, तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणा. द्वादशमुहूर्तानन्तरो दिवसस्तदा उत्तरार्दैऽपि द्वादशमुहूत्तानन्तरो दिवसः, यदा चोत्तरा द्वादशमुहानन्तरो दिवसस्तदा दक्षिणाद्धेऽपि द्वादशमुहूर्तानन्तरो दिवसः, तदा चाष्टादशमुहूत्तानन्त-13 रादिदिवसकाले जम्बूद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि नो-नैव सदा-सर्वकालं पश्चदशमहत्तों दिवसो भवति नापि सदा पञ्चदश मुहूर्ता रात्रिः, कुत इत्याह-'अणवडिया णमित्यादि, अनवस्थितानि-अनियतप्रमाणानि, अनुक्रम [४३] ॥८७॥ ~187~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy