________________
आगम (१६)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१], ------------------ प्राभृतप्राभृत [-1, ------------------ मूलं [४-७] + गाथा:(६-१५) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१०],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [४-७]]
||६-१५||
लालस्य द्वयोरपि सूर्ययोः प्रत्यहोरात्रमर्धमण्डलविषया संस्थिति:-व्यवस्था वक्तच्या २, तृतीये तव मतेन का सूर्यः किय
दपरेण सूर्येण चीर्ण क्षेत्र प्रतिचरतीति निरूप्यं ३, चतुर्थं द्वावपि सूर्यों परस्परं कियत्परिमाणमन्तरं कृत्वा चारं चरत | इति प्रतिपाद्यं ४, पञ्चमे कियत्प्रमाणं द्वीपं समुद्रं वाऽवगाह्य सूर्यश्चारं चरतीति ५, षष्ठे एकैकेन रात्रिन्दिवेन एकैकः सूर्यः कियत्प्रमाण क्षेत्रं विकम्प्य-विमुच्य चारं चरतीति ६, सप्तमे मण्डलानां संस्थानमभिधानीयं ७, अष्टमे मण्डलानामेव विष्कम्भो-बाहल्यमिति ८, एवमर्थाधिकारसमन्वितानि प्रथम प्राभृते अष्टी प्राभृतप्राभूतानि । सम्पति प्रथम एव प्राभृते चतुरादिषु प्राभृतप्राभूतेषु यत्र यावत्यः प्रतिपत्तयः परमतरूपास्तत्र तावतीरभिधित्सुराह-'छप्पंचे'त्यादि, प्रथमस्य प्राभृतस्य चतुरादिषु प्राभृतप्राभृतेषु यथाक्रममेताः प्रतिपत्तया-परमतरूपा भवन्ति, तद्यथा-चतुर्थे प्राभृतप्राभृते षट् प्रतिपत्तयः ४, पश्चमे पश्च ५, पछे सप्त ७, सप्तमे अष्टौ ८, अष्टमे तिन ३ इति ॥ सम्प्रति द्वितीये प्राभूते यदाधिकारोपेतानि त्रीणि प्राभूतप्राभृतानि सान् प्रतिपादयति-पडिवत्ती'त्यादि, द्वितीयस्य प्राभृतस्य प्रथमे प्राभूतप्राभृते सूर्यस्योदये अस्तमयनेषु च प्रतिपत्तयः-परमतरूपाः प्रतिपाद्याः स्वमतप्रतिपत्तिश्च, द्वितीये भेदधातः कर्णकला च वक्तव्या, किमुक्तं भवति ?-भेदो मण्डलस्थापान्तरालं तत्र घातो-गमनं, 'हन हिंसागत्यो रिति वचनात् , स एकेषां मतेन प्रतिपाद्यः, यथा विवक्षिते मण्डले सूर्येणापूरिते सति तदनन्तरं सूर्योऽपरमनन्तरं मण्डलं सङ्कामतीति, तथा कर्णः-कोटिभागः तमधिकृत्यापरेषां मतेन कला वक्तव्या, यथा विवक्षिते मण्डले द्वावपि सूर्यो प्रथमक्षणे प्रविष्टौ सन्तौ पूर्वापरकोटिद्वयं लक्षीकृत्य बुद्ध्या परिपूर्ण यथावस्थितं मण्डलं विवक्षित्वा ततः परमण्डलस्य कर्ण-कोटिभागरूपमभिसमीक्ष्य ततः
KAB%E35
%
दीप
अनुक्रम [१०-१९]
JainEautatinintamatunt
Far FaranaLPHABDKOne
~18~