________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [५], -------------------- प्राभृतप्राभृत -1, -------------------- मूल [२६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- प्तिवृत्तिः (मल.)
प्रत
सूत्रांक
॥ ७८॥
[२६]
दीप
न्द्रक इव लोकनाभिः १०, तथा अच्छ:-स्वच्छ, सुनिर्मलजाम्बूनदरलबहुलत्वात् ११, तथा सूर्य उपलक्षणमेतत् चन्द्र-४५प्राभृते ग्रहनक्षत्रतारकाच प्रदक्षिणमावर्तन्ते यस्य स सूर्यावर्तः १२, तथा सूर्यरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाभिश्च समन्ततःलालश्याप्रति
माहिति सू२६ परिभ्रमणशीलैरानियते स्म-वेष्ट्यते स्मेति सूर्यावरणः 'कृढ़हुल मिति वचनात्कर्मण्यनत्प्रत्ययः १३, तथा गिरीणामुत्तम इति उत्तमः १४, दिशामादिः-प्रभवो दिगादिः, तथाहि-रुचकात् दिशां विदिशां च प्रभवो रुचकश्चाष्टप्रदेशात्मको मेरुमध्यवत्ती, ततो मेरुरपि दिगादिरित्युच्यते १५, तथा गिरीणामवतंसक इवेत्यवतंसकः १६, अमीषां च षोडशानां नाम्नां सवाहिके इमे जम्बूद्वीपप्रज्ञप्तिप्रसिद्ध गाथे-"मंदर मेरुमणोरम सुदंसण सयप य गिरिराया । रयणोच्चए सिलोच्चय मझे लोगस्स नाभी य ॥१॥ अच्छे य सूरियावत्ते, सूरियावरणे इय । उत्तमे य दिसाई य, वडिसे श्य सोलसे ॥२॥" तथा धरण्या:-पृथिव्याः कीलक इव धरणिकीलकः, तथा धरण्याः शृङ्गमिव धरणिशृङ्गः, पर्वतानामिन्द्रः पर्वतेन्द्रः, पर्वतानां राजा पर्वतराजः, तदेवं सर्वेऽपि मन्दरादयः शब्दाः परमार्थत एकार्थिकास्ततो भिन्नाभिप्रायतया प्रवृत्ताः प्राक्तनाः प्रतिपत्तयः सर्वा अपि मिथ्यारूपा अवगन्तव्याः। यापि च लेश्याप्रतिहतिः सा मन्दरेऽप्यस्ति अन्यत्रापि च, तथा चाहता जे णं इत्यादि, ता इति पूर्ववत् ये णमिति वाक्यालङ्कारे पुद्गला मेरुतटभित्तिसंस्थिताः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गलाः सूर्यस्य लेश्यां प्रतिघ्नन्ति, अभ्यन्तरं प्रविशन्त्याः सूर्यलेश्यायास्तैः प्रतिस्खलितत्वात् , येऽपि पुद्गला मेरुतटभित्तिसंस्थिता अपि दृश्यमानपुद्गलान्तर्गताः सूक्ष्मत्वान्न चक्षुःस्पर्शमुपयान्ति तेऽप्यष्टा अपि सूर्यलेश्यां प्रति- ४ ॥७८॥ प्रन्ति, तैरप्यभ्यन्तरं प्रविशन्त्याः सूर्यलेश्यायाः स्वशक्त्यनुरूपं प्रतिस्खल्यमानत्वात, येऽपि मेरोरन्यत्रापि चरमलेश्या
अनुक्रम [४०]
CONGRESS
Fhi
~169~