SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [४], -------------------- प्राभृतप्राभृत -, -------------------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२५] दीप रिरयपरिक्षेपणमागच्छति, तथाहि-जम्बूद्वीपस्य परिक्षेपपरिमाणं त्रीणि लक्षाणि षोडश सहस्राणि द्वे शते अष्टाविंशत्यधिक ३१६२२८, एतद् द्वाभ्यां गुण्यते, जातानि पट् लक्षाणि द्वात्रिंशत्सहस्राणि चत्वारि शतानि षट्पञ्चाशदधिकानि ६३२४५६, तेषां दशभिर्भागे हते लब्धानि त्रिषष्टियोजनसहस्राणि द्वे शते पञ्चचत्वारिंशदधिके पटू च दशभागा योजनस्या ५३२४५। तत एष एतावान् अनन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेषो जम्बूद्वीपपरिरयपरिक्षेपणविशेष आख्यात इति वदेत् , तदेवमुक्तं सर्वबाह्याया अपि बाहाया विष्कम्भपरिमाणं, सम्पति सामस्त्येनान्धकारसंस्थितेरायामप्रमाणमाह-'तीसे णमित्यादि, इदं चायामप्रमाणं तापक्षेत्रसंस्थितिगतायामपरिमाणवत्परिभावनीयं, समानभावनिकत्वात् । अत्रैव सर्वाभ्यन्तरे मण्डले वर्तमानयोः सूर्ययोर्दिवसरात्रिमुहूर्तप्रमाणमाह-तया ण'मित्यादि सुगमं । तदेवं| सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिं अन्धकारसंस्थितिं चाभिधाय सम्प्रति सर्वबाह्यमण्डले तामभिधित्सुराह-'ता जया 'मित्यादि, ता इति पूर्ववत् , यदा सूर्यः सर्वबाह्यमण्डलमुपसङ्क्रम्य चार चरति तदा किंसंस्थिता तापक्षेत्रसंस्थितिराख्याता इति भगवान् वदेत् !, भगवानाह-'ता ऊद्धमुहे'त्यादि, ता इति पूर्ववत् , ऊर्ध्वमुखकलम्बुकापुष्पसंस्थिता तापक्षेत्रसंस्थितिराख्याता (इति ) वदेत् स्वशिष्येभ्यः, 'एव'मित्यादि, एवं-पूर्वोक्तेन प्रकारेण यदभ्यन्तरमण्डले अभ्यन्तरमण्डलगते सूर्ये अन्धकारसंस्थितेः प्रमाणमुक्कं तद्वाह्यमण्डले-बाह्यमण्डलगते सूर्ये तापक्षेत्रसंस्थितेः परिमाणं भणितव्यं, यत्पुनस्तत्र-सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये तापक्षेत्रसंस्थितेः प्रमाणं तद्बाह्यमण्डले वर्तमाने सूर्येऽन्धकारसंस्थितःप्रमाणामभिधातव्यं, तच्च तावत् 'तयाणं उत्तमकहपत्ता उक्कोसिया अट्ठारसमुहुत्ता राईत्यादि, तश्चैवं सूत्रतो भणनीयं-'अंतो संकुडा अनुक्रम HEROHTAS [३९] ~162~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy