SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [४], -------------------- प्राभृतप्राभृत -, -------------------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत SEXI सूत्रांक [२५] भागस्तस्यैव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमाइंसु हम्मियतलसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमासु' १५ 'वालग्गपोत्तियासंठिय'त्ति वालाप्रपोतिकाशब्दो देशीशब्दवादाकाशतडागमध्ये व्यवस्थितं क्रीडास्थानं लघुप्रासादमाह तस्या इव संस्थितं-संस्थानं यस्याः सा तथा अपरेषां मतेन अभिधानीया, तद्यथा-'एगे पुण एवमासु वालग्गपोत्तिया संठिया चंदिमसूरियसंठिई पण्णचा, एगे एवमासु'१६॥ तदेवमुक्ताः परतीथिकानां प्रतिपत्तयः, एतासां च मध्ये या प्रतिपत्तिः समीचीना तामुपदर्शयति-तत्थे त्यादि, तत्र-तेषां पोडशानां परतीपिकानां मध्ये ये ते वादिन एवमाहुः-समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञता इति, एतेन नयेन नेतन्यंएतेनाभिप्रायेणास्मन्मतेऽपि चन्द्रसूर्यसंस्थितिरवधार्येति भावः, तथाहि-इह सर्वेऽपि कालविशेषाः सुषमसुषमादयो युगमूलाः, युगस्य चादौ श्रावणे मासि बहुलपक्षप्रतिपदि प्रातरुदयसमये एकः सूर्यो दक्षिणपूर्वस्यां दिशि वर्त्तते तदूद्वितीयस्त्वपरोत्तरस्यां चन्द्रमा अपि तत्समये एको दक्षिणापरस्यां दिशि वर्तते द्वितीय उत्तरपूर्वस्यामत एतेषु युगस्यादौ चन्द्रसूर्याः समचतुरनसंस्थिता वर्तन्ते, यत्त्वत्र मण्डलकृतं वैषम्यं यथा सूयौं सर्वाभ्यन्तरमण्डले वते चन्द्रमसौ सर्वबाये इति तदल्पमितिकृत्वा न विवक्ष्यते, तदेवं यतः सकलकालविशेषाणां सुषमासुषमादिरूपाणामादिभूतस्य युगस्यादौ समचतुरस्रसंस्थिताः सूर्यचन्द्रमसो भवन्ति ततस्तेषां संस्थितिः समचतुरस्रसंस्थानेनोपवर्णिता, अन्यथा वा यथासम्प्रदाय समचतुरस्त्रसंस्थितिः परिभावनीयेति, 'नो चेव णं इयरेहिति नो चेक-नैव इतरैः-शेषेर्नयैश्चन्द्रसूर्यसंस्थितिख़तव्या, | तेषां मिथ्यारूपत्वात् , तदेवमुक्ता चन्द्रसूर्यसंस्थितिः। सम्प्रति तापक्षेत्रसंस्थितिमभिधातुकामः प्रथमतस्तद्विषयं प्रश्नसू दीप अनुक्रम [३९] ~152~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy