________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [४], -------------------- प्राभूतप्राभत [-1, -------------------- मलं [२५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२५]
दीप
भगवन् ! चन्द्रसूर्यसंस्थितिराख्याता इति वदेत् !, इह चन्द्रसूर्यविमानानां संस्थानरूपा संस्थितिः प्रागेवाभिहिता बात इह चन्द्रसूर्यविमानसंस्थितिश्चतुर्णामपि अवस्थानरूपा पृष्टा द्रष्टच्या, एवमुक्ते भगवानेतद्विपये यावत्यः परतीथि-1
काणां प्रतिपत्तयस्तावतीरुपदर्शयति-तत्थेत्यादि, तत्र चन्द्रसूर्यसंस्थितौ विचार्यमाणायां खल्विमाः षोडश प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-एके वादिन एवमाहुः-समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, समचतुरस्र संस्थिति-संस्थान यस्याश्चन्द्रसूर्यसंस्थितेः सा तथा, अत्रैवोपसंहारवाक्यमाह-एगे एवमासु, एवं सर्वत्रापि प्रत्येकमुपसंहारवाक्यं द्रष्टव्यं १, एके पुनरेवमाहुः विषमचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिराख्याता, अत्रापि विषमचतुरस्र संस्थानं यस्याः सा तथेति विग्रहः २, एवं 'समचउकोणसंठिय'त्ति एवं-उक्तेन प्रकारेणापरेषामभिप्रायेण समचतुष्कोणसंस्थिता चन्द्रसूर्यसंस्थितिवक्तव्या, सा चैवम्-'एगे पुण एवमाहंसु समचउक्कोणसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु' अत्र 'समचउक्कोणसंठिय'त्ति समाश्चत्वारः कोणा यत्र तत् समचतुष्कोणं (तत्) संस्थित-संस्थानं यस्याः सा तथेति विग्रहः ३, 'विसमचउकोणसंठिय'त्ति 'एगे पुण एवमाईसु-विसमचउकोणसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु' ४ 'समचावालसंठिय'त्ति समचक्रचाल-समचक्रवालरूपं संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण चन्द्रसूर्यसंस्थितिवक्तव्या, सा चैवम्- 'एगे एषमाइंसु समचकवालसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु' ५, 'विसमचकवालसंठिय'त्ति विषमचक्रवालं-विषमचक्रवालरूपं संस्थितं-संस्थानं यस्याः सा तथा अन्येषां मतेन चन्द्रसूर्यसंस्थितिर्व-3 क्तव्या, सा चैवम्-'एगे एवमाहंसु विसमचक्कवालसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु' ६, चक्कद्धचकवाल
अनुक्रम
[३९]
~150