SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [२४] दीप अनुक्रम [३८] चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः ) प्राभृतप्राभृत [-] मूलं [२४] प्राभृत [3], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि प्रणीता वृत्तिः सूर्यप्रज्ञसिवृत्तिः ( भल० ) ॥ ६६ ॥ निष्क्रामतोः सूर्ययोर्जम्बूद्वीपविषयः प्रकाशविधिः क्रमेण हीयमान उक्तः तथा सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतोः क्रमेण वर्द्धमानो वेदितव्यः, तद्यथा - द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलादर्वाचनेऽनन्तरे द्वितीये मण्डले वर्तमान एकोऽपि सूर्य एकं जम्बूद्वीपस्य द्वीपस्य पश्चमचक्रवालभागं षष्यधिकपटूत्रिंशच्छतसङ्ख्य भागसत्कभागद्वयाधिकं प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं षष्यधिकषट्त्रिंशच्छतसय भागसत्कभागद्वयाधिकं प्रकाशयति, द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलादर्वा कने तृतीये मण्डले वर्त्तमान एकं पञ्चमं चक्रवालभागं षष्ट्यधिकषटूत्रिंशच्छतसंख्य भागसत्कभागचतुष्टयाधिकं प्रकाशयति, अपरोऽपि सूर्यः परतं एकं पञ्चमं चक्रवालभागं यथोक्तभागचतुष्टयाधिकं प्रकाशयति, एवं प्रतिमण्डलमेकैकः सूर्यः षष्ट्यधिकपटूत्रिंशच्छत भागसत्कभागद्वयवर्द्धनेन प्रकाशयन् तावदवसेयः यावत्सर्वाभ्यन्तरं मण्डलं, तस्मिंश्च सर्वाभ्यन्तरे मण्डले द्वितीयस्य पञ्चमचक्रवालभागस्यार्द्ध परिपूर्ण भवति, तत एकोऽपि सूर्यस्तत्र मण्डले एकं पथमं चक्रवालभागं सार्द्धं जम्बूद्वीपस्य प्रकाशयत्यपरोऽप्येकं पचंमं चक्रवालभागं सार्द्धं, तथा चैतदेव जम्बूद्वीपचक्रवालस्य दश भागान् परिकल्प्यान्यत्राप्युक्तम्- 'छच्चेव उदसभागे जंबुद्दीवस्स दोवि दिवसयरा । ताविंति दिसलेसा अभिंतरमंडले संता ॥ १ ॥ चत्तारि य दसभागे जंबुदीवरस दोवि दिवसयरा । ताविंति संतळेसा बाहिरए मंडले संता ॥ २ ॥ छत्तीसे भागसए सद्धिं काऊण जंबुदीवरस । तिरियं तत्तो दो दो भागे बहेइ हायइ वा ॥ ३ ॥ ” इति ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां तृतिय प्राभृतं समाप्तं Jain Eaton Intl अत्र तृतीयं प्राभृतं परिसमाप्तं F&P On ~ 145~ ३ प्राभृतम् ॥ ६६ ॥
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy