________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभत [३], --------------------- प्राभतप्राभूत [-], -------------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२४]
धिक द्वीपशतं द्वाचत्वारिंशदधिकं समुद्रशतं चन्द्रसूर्याषवभासयतः ९, एके पुनर्दशमा एवं जल्पन्ति-द्वासप्तत-द्वासप्त| त्यधिक द्वीपशतं द्वासप्तत्यधिकं समुद्रशतं चन्द्रसूर्याववभासयतः १०, एके एकादशाः पुनरेवमाहुर-द्वाचत्वारिंशंद्वाचत्वारिंशदधिकं द्वीपसहस्रं द्वाचत्वारिंशदधिकं समुद्रसहसं चन्द्रसूर्याववभासयतः ११, एके द्वादशाः पुनरेवमाहुःद्वासप्ततं-द्वासप्तत्यधिकं द्वीपसहचं द्वासप्तत्यधिकं समुद्रसहस्र चन्द्रसूर्याववभासयतः १२, एताश्च सर्वा अपि प्रतिपत्तयो| मिथ्यारूपास्तथा च भगवानेता व्युदस्य स्वमतं भिन्नमेव कथयति-'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवल चक्षुषः केवलपाचक्षुषा यथावस्थितं जगदुपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता अयन्न'मित्यादि, अत्र 'जहा
जंबुद्दीवपन्नत्तीए'त्ति यथा जम्बूदीपप्रज्ञप्तौ 'अयण्णं जंबुद्दीवे इत्यारभ्य यावत् एवामेव सपुवावरेणं जंबुद्दीवे दीवे चोद्दस सलिलसयसहस्साई छप्पन्नं च सलिलासहस्सा भवंतीति मक्खाय' मित्युक्तं, तथा एतावग्रन्थसहस्रचतुष्टयप्रमाणमत्रापि वक्तव्यं परं अन्धगौरवभयान लिख्यते, केवलं जम्बूद्वीपप्रज्ञप्तिपुस्तकमेव निरीक्षणीयमिति, अयमेवंरूपो जम्बूद्वीपः पञ्चभिः पञ्चसङ्ख्योपेतैश्चक्रभागैः-चक्रवालभागैः संस्थित आख्यातो मया इति वदेत्स्वशिष्याणां पुरतः, एवमुक्त भगवान् गौतमः स्वशिष्याणां स्पष्टावबोधार्थं भूयः पृच्छति-'ता कह'मित्यादि, ता इति पूर्ववत्, कथं भगवान् । त्वया जम्बूद्वीपो द्वीपः पश्चचक्रभागसंस्थित आख्यात इति वदेत् , भगवानाह-'ता जया ण'मित्यादि, ता इति पूर्वबत्, यदा णमिति वाक्यालङ्कारे, एतौ प्रवचनवेदिनां प्रसिद्धी द्वौ सूर्यों सर्वाभ्यन्तरमण्डलमुपसदम्य चारं परतः तदा तो समुदितौ द्वावपि सूर्यो जम्बूद्वीपस्य द्वीपस्य त्रीन् पञ्चचक्रवालभागान् अवभासयत उद्योतयतस्तापयंतः प्रकाशयतः,
RECCCCCC
अनुक्रम
[३८]
Fhi
~142~