________________
आगम
(१६)
प्रत
सूत्रांक
[१०५R
-१०६]
दीप
अनुक्रम
[१९६
-१९७]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृत [२०],
• प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
मूलं [१०५ - १०६]
Education in
ता एरसिए णं चंदिमसूरिया जोइसिंदा जोइसरायाणो कामभोगे पञ्चशुभवमाणा विहरंति (सूत्रं १०६ ) ॥
'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं केन प्रकारेण केनान्यर्थेनेति भावः चन्द्रः शशीत्याख्यात इति वदेत् ? भगवानाह - 'ता चंदस्स णमित्यादि, ता इति पूर्ववत्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिपराजस्य मृगाङ्के मृगविहे विमाने अधिकरणभूते कान्ता: कमनीयरूपा देवाः कान्ता देव्यः कान्तानि च आसन शयनस्तम्भभाण्डमात्रोपकरणानि आत्मनाऽपि चन्द्रो देवो ज्योतिषेन्द्रो ज्योतिपराजः सौम्यः- अरौद्राकारः कान्तः कान्तिमान् सुभगः सौभाग्ययुक्तत्यात् वल्लभो जनस्य प्रियं-प्रेमकारि दर्शनं यस्य स प्रियदर्शनः शोभनमतिशायि रूपं अङ्गप्रत्यङ्गावयवसन्निवेशविशेषो यस्य स सुरूपः, ता-ततः एवं खलु अनेन कारणेन चन्द्रः शशी चन्द्रः शशीत्याख्यात इति वदेत्, किमुक्तं भवतिः सर्वात्मना कमनीयत्वलक्षणमन्वर्थमाश्रित्य चन्द्रः शशीति व्यपदिश्यते, कथा व्युत्पस्येति, उच्यते, इह 'शश कान्ता' विति धातुरदन्तश्चौरादिकोऽस्ति, चुरादयो हि धातवोऽपरिमिता न तेषामियत्ताऽस्ति, केवलं यथालक्ष्यमनुसर्त्तव्या', अत एव चन्द्रगोमी चुरादिगणस्यापरिमिततया परमार्थतो यथाउक्ष्यमनुसरणमवगम्य द्वित्रानेव चुरादिधातून् पठितवान् न भूयसः, ततो णिगन्तस्य शशनं शश इति घञ्प्रत्यये शश इति भवति, शशोऽस्यास्तीति शशी, स्वविमानवास्तव्य देवदेवीशयनासनादिभिः सह कमनीयकान्तिकलित इति भावः अन्ये तु व्याचक्षते - शशीति सह श्रिया वर्त्तते इति सश्रीः प्राकृतत्वाच्च शशीतिरूपं, 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं?--केन प्रकारेण केनान्यर्थेनेति भावः सूर आदित्यः २ इत्याख्यायते इति वदेत् ?, भगवानाह 'ता सूराइया' इत्यादि, सूर आदिः प्रथमो येषां ते सूरादिकाः के इत्याह- 'समयाइति वा' समया - अहोरात्रादिकालस्य
For Par Use Only
~593~