SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ १०४ ] दीप अनुक्रम [१९४] “सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः) मूलं [ १०४] प्राभृत [२०], ------ - प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः Ja Eratur एगे एवमाहंसु, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा णं महिडिया जाय महाणुभागा वरवत्थधरा वरमलधरा वराभरणधारी अवोच्छित्तिणपट्टताए अन्ने चयंति अण्णे उववज्जंति (सूत्रं १०४ ) ॥ 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं ? - केन प्रकारेण चन्द्रादीनामनुभावः स्वरूपविशेष आख्यात इति वदेत् ?, एवमुक्ते भगवानेतद्विषये ये द्वे प्रतिपत्ती ते उपदर्शयति- 'तत्थ खलु' इत्यादि, तत्र चन्द्रादीनामनुभावविषये खल्विमे द्वे प्रतिपत्ती - परतीर्थिकाभ्युपगमरूपे प्रज्ञप्ते, तद्यथा - 'तत्थेगे' इत्यादि, तत्र तेषां द्वयानां परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः, 'ता' इति तेषां परतीर्थिकानां प्रथमं स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः, चन्द्रसूर्या णमिति वाक्यालङ्कारे नो जीवा - जीवरूपाः किन्त्वजीवाः, तथा नो घना - निविडप्रदेशोपचयाः किन्तु शुषिराः, तथा न वरबोन्दिधराः- प्रधान सजीव सुव्यक्तावयव शरीरो पेताः किन्तु कलेवराः-कलेवरमात्राः तथा नास्ति णमिति वाक्यालङ्कारे तेषां चन्द्रादीनामुत्थानं - ऊर्ध्वोभवनमितिरुपदर्शने वाशब्दो विकल्पे समुच्चये वा कर्म्म-उत्क्षेपणावक्षेपणादि बलं - | शारीरः प्राणो वीर्य - आन्तरोत्साहः 'पुरिसकार परक मे ' इति पुरुषकारः - पौरुषाभिमानः पराक्रमः स एव साधिताभि मतप्रयोजनः पुरुषकारश्च पराक्रमश्च पुरुषकारपराक्रममिति वाशब्दः सर्वत्रापि पूर्ववत्, तथा ते चन्द्रादित्याः 'नो विजुयं लवंति'त्ति नो विद्युतं प्रवर्त्तयन्ति नाप्यशनिं विद्युद्विशेषरूपं नापि गर्जितं - मेघध्वनिं किन्तु 'अहो पण 'मित्यादि चन्द्रादित्यानामधो णमिति पूर्ववत् वादरो वायुकायिकः सम्मूर्छति अधश्च बादरो वायुकायिकः सम्मूच्छर्ष 'विपि लबइ' इति विद्युतमपि प्रवर्त्तयति, अशनिमपि प्रवर्त्तयति, विद्युदादिरूपेण परिणमते इति भावः, अत्रोपसंहारमाह For Praise Only ~ 581 ~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy