SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूत्रांक [१०० ] + गाथा: अनुक्रम [१२९ -१९२] “सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्ति:) प्राभृत [१९], प्राभृतप्राभृत [-], मूलं [१००] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः सूर्यप्रज्ञसिवृत्तिः ( मल० ) ॥ २७७॥ Education in यथा- न प्रत्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणं कर्त्तव्यं, न खलु भगवान् जगत्स्वामी मन्त्राजनायोपस्थितेषु शुभतिथ्यादिनिरीक्षणं कृतवानिति ते अपास्ता द्रष्टव्याः । 'तेसि' मित्यादि, तेपां - सूर्यचन्द्रमसां सर्वबाह्यात् मण्डलाभ्यन्तरं प्रविशतां तापक्षेत्रं प्रतिदिवसं क्रमेण नियमादायामतो वर्द्धते येन च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यतरान्म४ण्डलाइ बहिः निष्क्रमतां परिहीयते, तथाहि सर्वधाये मण्डले चारं चरतां सूर्याचन्द्रमसां प्रत्येकं जम्बूद्वीपचक्रवालस्य दशधाप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रं, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं पथ्यधिकपटूत्रिंशच्छत भक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वद्धेते, चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पडूविंशतिः पविंशतिर्भागाः सप्तविंशतितमस्य च एकः सप्तभाग इति वर्द्धते, एवं च क्रमेण प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरे मण्डले चारं चरतः तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्तापक्षेत्रं, ततः पुनरपि सर्वाभ्यन्तरामण्डलाद्वहिर्निष्क्रमणे सूर्यस्य प्रतिमण्डलं पथ्यधिकपटूत्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं षड्विंशतिर्भागाः सप्तविंशतितमस्य च भागस्य एकः सप्तभाग इति । 'तेसि'मित्यादि, तेषां चन्द्रसूर्यादीनां तापक्षेत्रपथाः कलम्बुकापुष्पसंस्थिता - नालिकापुष्पाकारा भवन्ति, एतदेव व्याचष्टे अन्तः- मेरुदिशि सङ्कुचिता, बहिः-उवगदिशि विस्तृता, एतच्च प्रागेव चतुर्थे प्राभृते भावितमिति न भूयो भाध्यते ॥ सम्प्रति चन्द्रमसमधिकृत्य गौतमः प्रश्नयति hi बहुत चंद्रो ? परिहाणी केण हुंति चंदस्स ? । कालो वा जोव्हो वा केणऽणुभावेण चंदस्स १ ॥ २४ ॥ For Par Lise Only ~564~ १९ प्राभूते चन्द्रसूर्यादिपरिमाणं सू १०० ॥२७७॥
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy