________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
प्रियविप्रयोगजननेन वा कलहसंपादनतो वा दुःखमुत्पादयन्ति, यदा च येषां जन्मनक्षत्राद्यनुकूलः चन्द्रादीनां चारस्तदा। तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तांतधाविधां विपाकसामग्रीमधिगम्य विपाक प्रतिपद्यन्ते, प्रपन्नविषाकानि च तानि शरीरनीरोगतासम्पादनतो धनवृद्धिकरणेन वा वैरोपशमनतः प्रियसम्प्रयोगसम्पादनतोषा यदिवा प्रारब्धाभीष्टप्रयो-10
जननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनोऽल्पमपि प्रयोजन शुभतिथिनक्षत्रादावारभन्ते दिन तु यथाकथंचन, अत एव जिनानामप्याज्ञा पत्राजनादिकमधिकृत्येत्थमवतिष्ट यथा शुभक्षेत्रे शुभां दिशमभिमुखी-13
कृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रनाजनव्रतारोपणादि कर्त्तव्यं, नान्यथा, तथा चोकं पञ्चवस्तुके-"एसा जिणाणPIमाणा खित्ताईया य कम्मुणो भणिया । उदयाइकारणं जं तम्हा सबस्थ जइयर्थ ॥ १॥" अस्या अक्षरगमनिका-13 एषा जिनानामाज्ञा शुभे क्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रजाजनव्रतारोपणादि कर्तव्य, नान्य-IA था, अपिच-क्षेत्रादयोऽपि कर्मणामुदयादिकारणं भगवद्भिक्ताः , ततोऽशुभद्रव्यक्षेत्रादिसामग्री प्राप्य कदाचिदशुभविद्यानि कर्माणि विपाकं गत्वोदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभद्रध्यक्षेत्रादिसामग्यां तु प्रायो| नाशुभकर्मविपाकसम्भव इति निर्विघ्नं सामायिकपरिपालनादि, तस्मादयश्य छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं ।। ये तु भगवन्तोऽतिशयिनस्ते अतिशयवलादेव सविघ्नं निर्विघ्नं वा सम्यगधिगच्छन्ति ते न शुभतिथिमुह दिकमपेक्षन्ते | इति न तन्मार्गानुसरणं छद्मस्थानां न्याय्यं, तेन ये परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनि-11 पद्भूतशास्त्रा गुरुपरम्परायातनिरवद्यविशदकालोचितसामाचारीप्रतिपन्धिनः स्वमतिकल्पितसामाचारीका अभिदधति
दीप अनुक्रम [१२९-१९२]]
~563