SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक %4%+5% [१६]] टीप लवतिरूपपञ्चसंवत्सरं सूर्यसंवत्सरापेक्षया परिभाव्यमानमन्यूनातिरिक्तानि पञ्च वर्षाणि भवन्ति, सूर्यमासश्च सात्रिंश-* दहोरात्रप्रमाणश्चन्द्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशच द्वापष्टिभागा दिनस्य, ततो गणितसम्भावनया सूर्यसंवत्सरसत्क त्रिंशन्मासातिक्रमे एकश्चन्द्रमासोऽधिको लभ्यते, स च यथा लभ्यते तथा (ज्ञापनाय) पूर्वाचार्यप्रदर्शितेयं करणगाथा-14 'चंदस्स जो विसेसो आइयरस य हविज मासस्स । तीसइगुणिओ संतो हवइ हु अहिमासगो एको ॥१॥ अस्या* | अक्षरगमनिका-आदित्यसंवत्सरसम्बन्धिनो मासस्य मध्यात चन्द्रस्य-चन्द्रमासस्य यो भवति विश्लेषः, इह विश्लेषे कृते | सति यदवशिष्यते तदप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् साईत्रिंशदहोरात्ररूपाञ्चन्द्रमासपरिमाणमेकोनत्रिंशदिनानि द्वात्रिंशच्च द्वापष्टिभागा दिनस्येत्येवंरूपं शोध्यते, ततः स्थित हैं पश्चाहिनमेकमे केन द्वापष्टिभागेन न्यूनं, तच दिनं त्रिंशता गुण्यते, जातानि त्रिंशदिनानि, एकश्च द्वाषष्टिभागस्त्रिंशता गुणितो जातात्रिंशद् द्वापष्टिभागास्ते विंशदिनेभ्यः शोध्यन्ते, ततः स्थितानि शेषाणि एकोनत्रिंशद्दिनानि द्वात्रिंशच४ हद्वाषष्टिभागा दिनस्य, एतावत्परिमाणश्चान्द्रो मास इति भवति सूर्यसंवत्सरसत्कत्रिंशन्मासातिकमे एकोऽधिकमासो, युगे च सूर्यमासाः षष्टिस्ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तं च-"सट्टीए अइयाए हवइ हु अहिमासगो जुगळूमि । बावीसे पबसए हवाइ य बीओ जुगद्ध मि ॥१॥ अस्याप्यक्षरगमनिका|एकस्मिन् युगेऽनन्तरोदितस्वरूपे पर्वणां-पक्षाणां षष्टी अतीतायां, षष्टिसत्येषु पक्षेष्वतिक्रान्तेषु इत्यर्थः, एतस्मिन्नवसरे युगाढेषु-युगाप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासो द्वाविंशे-द्वाविंशत्यधिके पर्वशते-पक्षशतेऽति अनुक्रम 9454594 [७७]] ~319~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy