SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभूत [८], -------------------- प्राभृतप्राभृत -], ------------- ----- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२९] भणनीयाः 'एए'इत्यादि, यथा वर्षाणां-वर्षाकालस्य एते अनन्तरोदिताः समयादिगता अत्र आलापका भणिताना 'एवं हेमंताणं'ति शीतकालस्य, 'गिम्हाणं ति ग्रीष्मकालस्योष्णकालस्येत्यर्थः, प्रत्येकं समयादिगता दश दश आलापका भणितव्याः, अयनगतं त्वालापर्क साक्षात्पठति-ता जया णमित्यादि सुगम, 'जहा अयणे इत्यादि,यथा अयने आलापापको भणितः तथा संवत्सरे युगे-वक्ष्यमाणस्वरूपे चन्द्रादिसंवत्सरपञ्चकात्मके वर्षशते वर्षसहने वर्षशतसहने पूर्वाङ्गे पूर्व एवं 'जाव सीसपहेलिय'त्ति, एवं यावस्करणादमून्यपान्तराले पदानि द्रष्टव्यानि, 'तुडियंगे तुडिए अडडंगे अडडे अव-15 वंगे अववे हूहूयंगे हरये उप्पलंगे उप्पले पउमंगेपउमे नलिणंगे नलिणे अत्यनिउरंगे अत्यनिउरे अउयंगे अउए नऊ अंगे नउए चूलियंगे चूलिए सीसपहेलियंगे' इति, अत्र चतुरशीतिवर्षलक्षाण्येक पूर्वाङ्ग, चतुरशीतिः पूर्वाङ्गलक्षाणि एक पूर्वमेवं पूर्वः पूर्वी राशिचतुरशीतिलभैर्गुणित उत्तरोत्सरो राशिभवति, यावच्चतुरशीतिशीर्षप्रहेलिकाङ्गलक्षाणि एका शीर्षप्रहेलिका, एतावान् राशिर्गणितविषयोऽत ऊर्ध्वं गणनातीतः, स च पल्योपमादि, 'पलिओवमे सागरोवमे' अनयोः स्वरूपं सङ्घहणीटीकामायामुक्त, आलापकास्तु स्वयं वक्तव्याः, अवसर्पिण्युत्सर्पिणीविषयमालापर्क साक्षादाह-'ता जया ण'मित्यादि, तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणा॰ऽवसप्पिणी प्रतिपद्यते-परिपूर्णा भवति तदा उत्तरार्द्धऽपि अवसर्पिणी प्रतिपद्यते, यदा उत्तरार्दै अवसर्पिणी प्रतिपद्यते-परिपूर्णा भवति, तदा दक्षिणार्धेऽपि अवसर्पिणी प्रतिपद्यते-प्रतिपूर्णा भवति, यदा उत्तरार्द्धऽपि अवसर्पिणी प्रतिपद्यते तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि नैवा-15 रस्त्यवसर्पिणी नाप्युत्सर्पिणी, कुत इत्याह-अवस्थितो णमिति खलु तत्र पूर्वस्यामपरस्यां च दिशि कालः प्रज्ञप्तो मया अनुक्रम [३९] ~191~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy