SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२५] दीप अनुक्रम [३५] सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:) - ----- प्राभृतप्राभृत [-], मूलं [२५] प्राभृत [४], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः रिश्यपरिक्षेपणमागच्छति, तथाहि - जम्बूद्वीपस्य परिक्षेपपरिमाणं त्रीणि लक्षाणि षोडश सहस्राणि द्वे शते अष्टाविंशत्यधिके ३१६२२८, एतद् द्वाभ्यां गुण्यते, जातानि पटू लक्षाणि द्वात्रिंशत्सहस्राणि चत्वारि शतानि षट्पञ्चाशदधिकानि ६३२४५६, तेषां दशभिर्भागे हृते लब्धानि त्रिषष्टिर्योजन सहस्राणि द्वे शते पञ्चचत्वारिंशदधिके पट् च दशभागा योजनस्य ६३२४५ । तत एष एतावान् अनन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेषो जम्बूद्वीपपरिरयपरिक्षेपणविशेष आख्यात इति वदेत्, तदेवमुक्तं सर्वमाह्याया अपि बाहाया विष्कम्भपरिमाणं, सम्प्रति सामस्त्येनान्धकारसंस्थितेरायामप्रमाणमाह-'ती से ण'मित्यादि, इदं चायामप्रभाणं तापक्षेत्रसंस्थितिगतायामपरिमाणवत्परिभावनीयं समानभावनिकत्वात् । अत्रैव सर्वाभ्यन्तरे मण्डले वर्त्तमानयोः सूर्ययोदिवसरा त्रिमुहूर्त्तप्रमाणमाह-'तया ण'मित्यादि सुगमं । तदेवं सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिं अन्धकारसंस्थितिं चाभिधाय सम्प्रति सर्वबाह्यमण्डले तामभिधित्सुराह - 'ता जया रणमित्यादि, ता इति पूर्ववत्, यदा सूर्यः सर्वबाह्यमण्डलमुपसङ्क्रम्य चारं चरति तदा किंसंस्थिता तापक्षेत्रसंस्थितिराख्याता इति भगवान् वदेत् ?, भगवानाह 'ता ऊद्धमुहे त्यादि, ता इति पूर्ववत्, ऊर्ध्वमुख कलम्बुका पुष्पसंस्थिता तापक्षेत्रसंस्थितिराख्याता (इति) वदेत् स्वशिष्येभ्यः, 'एव' मित्यादि, एवं पूर्वोक्तेन प्रकारेण यदभ्यन्तरमण्डले अभ्यन्तरमण्डलगते सूर्ये अन्धकार संस्थितेः प्रमाणमुक्तं तद्वाह्यमण्डले - बाह्यमण्डलगते सूर्ये तापक्षेत्रसंस्थितेः परिमाणं भणितव्यं, यत्पुनस्तत्र - सर्वाभ्यन्तरे मण्डले वर्त्तमाने सूर्ये तापक्षेत्रसंस्थितेः प्रमाणं तद्वाह्यमण्डले वर्त्तमाने सूर्येऽन्धकारसंस्थितेः प्रमाणमभिधातव्यं तच्च तावत् 'तथा णं उत्तमकडपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई'त्यादि, तच्चैवं सूत्रतो भणनीयं- 'अंतो संकुडा For Parts Only ~159~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy