SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [4] दीप अनुक्रम [५] [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:) मूलं [५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः ॥ १४ ॥ निकसहस्राणि तैश्रतुभिः, प्राकृतत्वाच्च सूत्रे सकारस्य दीर्घत्वं स्त्रीत्वं च ' चतसृभिरग्रमहिपीभिः इह कृताभिषेका देवी महिषीत्युच्यते, सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रे इत्यग्राः, अग्राथ वा महिष्यथ अग्रमहिष्यस्ताभिश्रतसृभिः, कथम्भूताभिरित्याह- 'सपरिवाराभिः परिवारः सह यासां ताः सपरिवारास्ताभिः, परिवारचैकैकस्या देव्याः सहस्रं २ देवीनां तथा तिसृभिः पर्षद्भिः तिस्रो हि ॐ विमानाधिपतेः सर्वस्यापि पर्षदः, तद्यथा-अभ्यन्तरा मध्या बाह्या च तत्र या वयस्यमण्डलीकस्थानीया परममित्रसंहतिसदृशी सा अभ्यन्तरपर्षत्, तया सहापर्यालोचितं स्वल्पमपि प्रयोजनं न विदधाति, अभ्यन्तरपर्षदा सह पर्यालोचितं यस्यै निवेद्यते यथेदमस्माकं पर्यालोचितं सम्मतमागतं युष्माकमपीदं सम्पतं किंवा नेति सा मध्यमा, यस्याः पुनरभ्यन्तरपर्षदा सह पर्यालोचितं मध्यमया च सह टीकृतं यस्यै करणायैव निरूप्यते यथेदं क्रियतामिति सा बाह्या, तथा 'सत्तर्हि अणिएहिं' इति अनीकानि - सैन्यानि, तानि च सप्त, तद्यथा-हयानीकं गजानीकं रथानीकं पदात्यनीकं उपमानीकं गन्धर्वानीकं नाव्यानीकं तत्रायानि पञ्चानीकानि सङ्ग्रामाय कल्प्यन्ते, गन्धर्वनाय्यानकेि पुनरुपभोगाय, तैः सप्ताभिरनीकैः, अनीकानि स्वस्वाधिपतिव्यतिरेकेण न सम्यक् प्रयोजने समागते सत्युपकल्प्यन्ते ततः सप्तानीकाधिपतयोऽपि तस्य वेदितव्याः, तथा चाह- 'सत्तहिं अणियाहिवईहिं,' तथा 'पोडशभिरात्मरक्षदेवसहस्रै रिति विमानाधिपतेः सूर्याभस्य देवस्यात्मानं रक्षयन्तीत्यात्मरक्षाः, 'कर्मणोऽणि' त्यण् प्रत्ययः, ते च शिरस्त्राणकल्पाः, ॐ यथा हि शिरखाणं शिरस्याविद्धं प्राणरक्षकं भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिमरहरणाः समन्ततः पृष्ठतः पार्श्वतोऽग्रतश्रावस्थायिनी विमानाधिपतेः सूर्याभस्य देवस्य प्राणरक्षकाः, देवानामपायाभावात् तेषां तथाग्रहणपुरस्सरमवस्थानं निरर्थकमिति चेत्, न, स्थितिमात्रपरिपालनहेतुत्वात् प्रकर्षहेतुत्वाच्च तथा हि ते समन्ततः सर्वासु दिक्षु गृहीतमहरणा ऊर्द्धस्थिता अवति शनाः श्रीराजश्री मलयगिरीया वृत्तिः सूर्याभदेवस्य वर्णनं For Penal Use Only ~37~ सूर्याभेण वीरदर्शनं मृ० ५ ॥ १४ ॥ nary or
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy