________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
४
विस्तारवन्ति विपुलानि-अभूतानि भवनानि गृहाणि शयनानि आसनानि च प्रतीतानि यानानि-रथादीनि बाहनानि-अश्वादीन । एतैराकीणों व्याप्तो युक्तो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णः, तथा बहुधनं बहुजातरूपं सुवर्ण रजतं च-रूप्यं यस्य स बहुधनबहुजातरूपरजतः, तथा आयोगप्रयोगसम्पयुक्तः-आवाहनविसर्जनकुशलः, तथा विच्छदितं- तथाविधविशिष्टोपकाराकारितया विसृष्टमुकुरिटकादिषु प्रचुरं भक्तपानं यस्मिन् राज्यमनुशासति स विच्छर्दितप्रचुरभक्तपानः, अनेन पुण्याधिकतया न तस्मिन् । राज्यमनुशासति दुर्भिक्षमभूदिति कथितं, तथा बहूनां दासीनां दासानां गां-बलीवानां महिषाणां मां-स्त्रीगवानां एडकानां च प्रभुः बहुदासीदासगोमहिपगवेलगप्रभुः, ततः स्वार्थिकमत्ययविधानात् प्रभुकः, तथा परिपूर्णानि भृतानि यन्त्रकोशकोष्ठागाराणि यन्त्रगृहाणि कोशगृहाणि भाण्डागाराणि कोष्ठयहाणि धान्याना कोष्ठागाराणि गृहाणि इति भावः, आयुधगृहाणि च यस्य स पतिपूर्णयन्त्रकोशकोष्ठामारायुधगृहः, तथा बलं शारीरिक मानसिकं च यस्यास्ति सबलवान् , दुर्बलपत्ययमित्रो, दुर्बलानामकारणवत्सल इति भावः, एवंभूतः सन् राज्य प्रशासन विहरति अवतिष्ठते इति योगः, कथम्भूतं राज्यमित्याह-अपहतकण्टक, इह देशोपद्रवकारिणश्चरटाः कण्टकाः ते अपहता अवकाशानासादनेन स्थगिता यस्मिन् तत् अपहतकण्टकं, तथा मलिताः-उपद्रवं कुर्वाणा मान-17 ग्लानिमापादिताः कण्टका यत्र तन्मलितकण्टक, तथा उद्धताः स्वदेशत्याजनेन जीवितत्याजनेन वा कण्टका यत्र तत् उद्धृतकण्टक, तथा न विद्यते प्रतिमल्लः कण्टको यत्र तदप्रतिमल्लकण्टक, तथा 'ओहयसत्तु इति प्रत्यनीकाः राजानः शत्रबस्ते अपहताः स्वावकाशमलभमानीकता यत्र तत् अपहतशत्रु तथा निहताः-रणाङ्गणे पातिताः शत्रबो यत्र तनिहतशत्रु, तथा मलिता:-तगतसैन्यत्रासापादनतो मान-1 ग्लानिमापादिताः शत्रचो यत्र तत् मलितशत्र, तथा स्वातन्त्र्ययावनेन स्वदेशच्यावनेन जीवितच्यावनेन वा उद्धताः शत्रचा यत्र तत् ।
अनुक्रम
REaratunintawla
~30~