SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [8] दीप अनुक्रम [8] [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:) मूलं [४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः ॥ ११ ॥ श्रीराजमश्री उद्धतशत्रु, एतदेव विशेषणद्वयेन व्याचष्टे - निर्जितशत्रु, पराजितशत्रु, तथा व्यपगतं दुर्भिक्षं दोषो मारिच यत्र तत् व्यपगतदुर्भिक्षदोषमलयगिरी- ॐ मारि, तथा भयेन स्वदेशोत्थेन परचक्रकृतेन वा विप्रमुक्तं, अत एव क्षेमं निरुपद्रवं शिवं शान्तं सुभिक्षं शोभना - शुभा भिक्षा दर्शनिनां या वृत्तिः दीनानाथादीनां च यत्र तत् सुभिक्षं, तथा प्रशान्तानि डिम्बानि विघ्ना डमराणि - राजकुमारादिकृतधिकृतविद्वरा यत्र तत्प्रशान्तडिम्बडमरं । देवीवर्णकं 'सुकुमालपाणिपाया' इति सुकुमारौ पाणी पादौ च यस्याः सा सुकुमारपाणिपादा, तथा अहीनानि अन्यूनानि स्वरूपतः प्रतिपूर्णानि लक्षणतः पञ्चापीन्द्रियाणि यस्मिन् तथाविधं शरीरं यस्याः सा अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरा, तथा लक्षणानि स्वस्तिकचक्राॐ दीनि व्यञ्जनानि-मपीतिलकादीनि गुणाः- सौभाग्यादयस्तैरुपपेता लक्षणव्यञ्जनगुणोपेता, उप अप इत इतिशब्दत्रयस्थाने 'पृषोदरादय' इत्यपाकारस्य लोपे उपपेता इति द्रष्टव्यं, 'माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' इति तत्र मानं जलद्रोणप्रमाणता, कथमिति चेत्, उच्यते, जलस्यातिभृते कुण्डे पुरुषे स्त्रियां वा निवेशितायां यज्जलं निस्सरति तयादे द्रोणप्रमाणं भवति तदा पुरुषः स्त्री वा मानप्राप्त उच्यते, तथा उन्मानं अर्द्धभारप्रमाणता, सा चैवं-तुलायामारोपितः पुरुषः स्त्री वा यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्तोऽभिधीयते, प्रमाणं स्वालेनाष्टोत्तरशतोच्छ्रयिता, ततो मानोन्मानप्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि - जन्मदोषरहितानि सर्वाणि अङ्गानि शिरःप्रभृतीनि यानि तैः सुन्दराङ्गी मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गी, तथा | शशिवत्सोमाकारम् अरौद्राकारं कान्तं कमनीयं मियं द्रष्टृणामानन्दोत्पादकं दर्शनं रूपं यस्याः सा शशिसोमाकारकान्तभियदर्शना, अत एव सुरूपा, तथा करतलपरिमितो- मुष्टिग्राद्यः प्रशस्तलक्षणोपेतस्त्रिवलीको बलित्रयोपेतो रेखात्रयोपेतो बलिको - बलवान् मध्यो| मध्यभागी यस्याः सा करतलपरिमितप्रशस्तत्रिवलीकवलिकमध्या, तथा कुण्डलाभ्यां उल्लिखिता घृष्टा गण्डलेखा-कपोलविरचितमृग Jan Education i For Pale Only ~31~ चेतराजादिपर्युपा सना सू० ४ ॥ ११ ॥ nary org
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy