SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) ------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: इत्यादि विशेषणजातं पूर्ववत् , 'तस्स णमित्यादि, तस्य 'णामिति प्राग्वत् अशोकवरपादपस्याधस्तात, 'एत्य णमिति अशोकवरपादपस्य यदधो अत्र ‘णमिति पूर्ववत् एको महान् पृथ्वीशिलापट्टकः प्रज्ञप्तः, कथम्भूत इत्याह-'इसिखंघो समल्लीणे इत्यादि, इह स्कन्धः स्थुडमित्युच्यते, तस्याशोकवरपादपस्य यत् स्थुडं तत् ईषद्-मनाक् सम्यग् लीनस्तदासन्न इत्यर्थः, 'विक्खम्भायाममुष्पमाणे इति, विष्कम्भेनायामेन च शोभनम् --औचित्यानतिवति प्रमाणं यस्य स विष्कम्भायामसुप्रमाणः, कृष्णः, कृष्णत्वमेव निरूपयति-'अंजणघणकुवलयहलहरकोसेज्जसरिसो' अञ्जनको-वनस्पतिविशेषः घनो-मेघः कुवलय-नीलोत्पलं हलधरकौशेयं-बलदेववस्त्रे तैः सदृशा-समानवर्णः, 'आगासकेसकज्जलककेयणइंदनीलअयसिकुसुमपगासे आकाशं धूलीमेघादिविरहितं, केशाःशिरसिज़ाः, कजलं-अतीतं, कर्केतनेन्द्रनीलौ मणिविशेषौ अतसीकुसुमं प्रसिद्धमेतेषामिव प्रकाशो-दीप्तिर्यस्य स तथा, 'भिंगजगभंगभेयरिदुगनीलगुलियगवलाइरेगे' इति भृङ्गः-चतुरिन्द्रियः पक्षिविशेषः अञ्जनं सौवीराञ्जनं तस्य भङ्गेन-विच्छित्त्या | भेदः-छेदोऽञ्जनभङ्गभेदो रिष्ठको-रत्नविशेषः नीलगुटिकाः-प्रतीताः, गवलं माहिर्ष शृङ्गं तेभ्योऽपि कृष्णत्वेनातिरेको यस्य स तथा, 'भमरनिकुरम्पभूए' इति अत्र भूतशब्द औषम्यवाची, यथाऽयं लाटदेशः सुरलोकभूतः, सुरलोकोपम इत्यर्थः, ततोऽयमर्थः-भ्रमरनिकुरुम्बोपमः, 'जंबूफलअसणकुसुमबंधणनीलुप्पलपत्तनिकरमरगयआसासगनयणकीयासिवन्ने' जम्बूफलानि प्रतीतानि, असनकुसुमबन्धन-असनपुष्पवृन्तं नीलोत्पलपत्रनिकरो मरकतमणिः प्रतीतः, आसासको-बीयकाभिधानो वृक्षः, नयनकीको नेत्रमध्यताराः, असि खरं तेषामिव वणों यस्य स तथा, स्निग्धो न तु रूक्षः घनो निविडी न तु कोष्ठक इव मध्यशुपिरः 'अज्जुसिरे' इति श्लक्ष्णशुपिररहितः, 'रूवगपडिरूवगदरिसणिजे' इति रूपकाणां यानि तत्र सन्कान्तानि (प्रतिरूपकाणि) Santaratindane अशोकवृक्षस्य वर्णनं ~26~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy