SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [४३-४४] दीप अनुक्रम [४३-४४] मूलं [४३-४४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Jin Eucator -4800-449)-4000 490 44) 40043-40 [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:) अतितवरज्ञानदर्शनघरास्तेभ्यः, तथा छादयन्तीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तम् अपगतं छद्म येभ्यस्ते व्यावृच्छयानस्तेभ्यः, तथा रागद्वेषकपायेन्द्रियपरीषहोपसर्गघातिकर्मशत्रून् स्वयं जितवन्तोऽन्यथ जापयन्तीति जिनाः जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवं स्वयं तीर्णवन्तोऽन्यांश्च तारयन्तीति तीर्णास्वारकास्तेभ्यः, तथा केवलवेदसा अवगततत्त्वा बुद्धा अन्यथ बोधयन्तीति वोधकास्तेभ्यः, मुक्ताः कृतकृत्या निष्ठितार्था इति भावस्तेभ्योऽन्यांश्च मोचयन्तीति मोचकास्तेभ्यः सर्वज्ञेभ्यः सर्वदर्शिभ्यः शिवं सर्वोपद्रवरहितत्वात् अचलं स्वाभाविकप्रायोगिकच लनक्रियाऽपोहात् अरुजं शरीरमनसोरभावेनाधिव्याध्यसम्भवात् अनन्तं केवलात्मनाऽनन्तत्वाद अक्षयं विनाशकारणाभावात् अव्याबाधं केनापि वाधयितुमशक्यममूर्त्तत्वात् न पुनरावृत्तिर्यस्मात् तदपुनरावृत्ति सिध्यन्ति-निष्ठितार्थं भवन्त्यस्यामिति सिद्धि: - लोकान्तक्षेत्र लक्षणा सेव गम्यमानत्वाद्गतिः सिद्धिगतिरेव नामधेयं यस्य तत् सिद्धिगतिनामधेयं तिष्ठत्यस्मिन् इति स्थानं-व्यवहारतः सिद्धिक्षेत्रं निश्चयतो यथावस्थितं स्वस्वरूपं स्थानस्थानिनोरभेदोपचारात् तत् सिद्धिगतिनामधेयं स्थानं तत्संमाप्तेभ्यः, एवं प्रणिपातदण्डकं पठित्वा ततो 'बंदर नर्मसद ' इवि वन्दते ताः प्रतिमाचैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चात्प्रणिधानादियोगेनेत्येके, अन्ये त्वभिदधति - विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमपुरस्सरकायन्युत्सर्गासिद्धेरिति वन्दते सामान्येन नमस्करोति आशय वृद्धेरभ्युत्थाननमस्कारेणेति, तत्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति, अत ऊर्ध्वं सूत्रं सुगमं केवलं भूयान् विधिविषयो वाचनाभेद इति यथावस्थितवाचनामदर्शनार्थं विधिमात्रमुपदश्यते तदनन्तरं लोमहस्वकेन देवच्छन्दकं प्रमार्जयति पानीयधारया अभ्युक्षति, अभिमुखं सिञ्चतीत्यर्थः, तदनन्तरं गोशीर्षचन्दनेन पञ्चाङ्गुलितलं ददाति ततः पुष्पारो शाश्वत जिन - प्रतिमायाः पूजनं For Penal Use Only ~228~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy