SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [६], ---- मूलं [३५-३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५-३६] दीप अनुक्रम [३७-३८] ___ अथ षष्ठे किमपि लिख्यते-'धम्मपण्णत्तित्ति श्रुतधर्मप्ररूपणा दर्शनं मतं सिद्धान्त इत्यर्थः, उत्थान-उपविष्टः सन् यीभवति कर्म-गमनादिकं बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-पुरुषत्वाभिमानः पराक्रमः स एव सम्पादित - स्वप्रयोजनः, 'इति'उपदर्शने 'वा' विकल्पे, नास्त्येतदुत्थानादि जीवानां, एतस्य पुरुषार्थाप्रसाधकत्वात् , तदसाधकत्वं च पुरुषकारसद्भावेऽपि पुरुषार्थसिद्धयनुपलम्भात्, एवं च नियताः सर्वभावाः-थैर्यथा भवितव्यं ते तथैव भवन्ति, न पुरुषकारवलादन्यथा कर्तुं | शक्यन्ते इति, आह च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥" तथा "न हि भवति यन्न भाव्यं भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति कायस्य तु भवितव्यता नास्ति।।२।।" इति 'मङ्गुली'त्ति असुन्दरा धर्मप्रज्ञप्तिः श्रुतधर्मप्ररूपणा, किंस्वरूपाऽसावित्याह-अस्तीत्यादि,अनि यताः सर्वे भावाः-उत्थानादेर्भवन्ति तदभावान्न भवन्तीतिकृत्वेत्येवंस्वरूपा, ततोऽसौ कुण्डकोलिकः तं देवमेवमवादीत-यदि मोशाल| कस्य सुन्दरो धर्मो नास्ति कर्मादीत्यतो नियताः सर्वभावा इत्येवरूषो मङ्गुलश्च महावीरधर्मः अस्ति कर्मादीत्यनियताः सर्व भावा इत्येवंस्वरूपः, तन्मतमनूध कुण्डकोलिकस्तन्मतदूषणाय विकल्पद्वयं कुर्वनाह- तुमे णमित्यादि, पूर्ववाक्ये . का यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यं इति, त्वयाऽयं दिव्यो देवादिगुणः केन हेतुना लब्धः? किमुत्थानादिना । 'उदाहु' त्ति आहोश्चित् अनुत्थानादिना ?, तपोब्रह्मचर्यादीनामकरणेनेति भावः, यद्युत्थानादेरभावेनेति पक्षो गोशालकमताश्रितदावाद भवतः तदा येषां जीवानां नास्त्युत्थानादि-तपश्चरणकरणमित्यर्थः 'ते' इति जीवाः किं न देवाः, पृच्छतः अयमभिप्राय: यथा त्वं पुरुषकारं विना देवः संवृत्तः स्वकीयाभ्युपगमतः एवं सर्वजीवा ये उत्थानादिवर्जितास्ते देवाः प्रामुवन्ति, न चैतदेव कंडकोलिक-श्रमणोपासकः एवं मिथ्यादृष्टि: देवकृत: मिथ्यात्व प्रेरणा ~85
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy