________________
आगम
(१०)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [४५]
भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं+वृत्तिः) श्रुतस्कन्धः [२], • अध्ययनं [५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
मूलं [२९]
क? - ग्रीष्मकाले - उष्णकाले तथा सुखस्पर्शानि च बहूनि शयनानि आसनानि च प्रावरणर्गुणांश्च शीतापहा| रकत्वादीन् शिशिरकाले - शीतकाले अङ्गारेषु प्रतापनाः शरीरस्याङ्गारप्रतापनाः ताश्च आतपः सूर्यतापः स्निग्धमृदुशीतोष्णलघुकाश्च ये ऋतुसुखाः- हेमन्तादिकालविशेषेषु सुखकराः स्पर्शा अङ्गसुखं च निर्वृत्तिं चमनःस्वास्थ्यं कुर्वन्ति ये ते तथा तान् स्पृष्ट्वा इति प्रकृतं, तेष्विति सम्बन्धात् तेषु अन्येषु चैवमादिकेषु स्पर्शेषु | मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादि पूर्ववत् । तथा पुनरपि स्पर्शनेन्द्रियेण स्पृष्ट्वा स्पर्शानं अमनोज्ञपापकान् 'किंतेति तद्यथा अनेको-बहुविधो बन्धो- रजवादिभिः संयमनं वधो-विनाशः ताडनं - चपेटादिना | अङ्कनं तप्तायः शलाकयाङ्ककरणं अतिभारारोहणं अङ्गभञ्जनं शरीरावयवप्रमोदनं सूचीनां मखेषु प्रवेशो यः स तथा गात्रस्य - शरीरस्य प्रक्षणनं जीरणं गात्रप्रक्षणनं तथा लाक्षारसेन क्षारतैलेन तथा 'कलकल त्ति | कलकलशब्दं करोति यत्तस्कलकलं अतितप्तमित्यर्थः तेन त्रपुणा सीसकेन-काललोहेन च यत् सेचनं- अभिषेचनं यत्तत्तथा, हडीयन्धनं- खोटक क्षेपः रज्वा निगडे: संकलनं हस्ताण्डुकेन व यानि बन्धनानि तानि तच्छन्दैरेवोक्तानि तथा कुम्भ्यां भाजनविशेषे पाकः - पचनं दहनमग्निना सिंहपुच्छनं-शेफत्रोटनं उद्बन्धनंउल्लम्बनं शूलभेद:- शूलिकाप्रोतनं गजचरणमलणं करचरणकर्णनासौष्ठशीर्षच्छेदनं च प्रतीतं जिह्वाञ्छनंजिह्वाकर्षणं वृषणनयनहृद्यान्नदन्तानां यद् भञ्जनं-आमर्दनं तत्तथा, यो-यूपे वृषभसंयमनं लता-कम्बा कषो-बर्द्ध: एषां ये प्रहारास्ते तथा पदपाणिः पादपाणिः जानु-अष्ठीवत् प्रस्तराः-पाषाणाः एषां यो निपातः
Eucation International
For Parts Only
~528~