________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [४५]
ग्रहीतव्यं चेति, किन्तदित्याह-भायणभंडोवहिउवगरणं, एवं-अनेन न्यायेन संयतः-संयमी विमुक्त:त्यक्तधनादिः निःसङ्गः-अभिष्वङ्गवर्जितः निर्गता परिग्रहे रुचिर्यस्य स तथा निर्ममो-ममेतिशब्दवर्जी निःस्लेहबन्धनश्च यः स तथा, सर्वपापविरता, वास्यां-अपकारिकायां चन्दने च-उपकारके समान:-तुल्यः कल्पःसमाचारो विकल्पो वा यस्य स तथा, द्वेषरागविरहित इत्यर्थः, समा-उपेक्षणीयत्वेन तुल्या तृणमणिमुक्ता यस्य स तथा, लेष्टी काशने च समः-उपेक्षकत्वेन तुल्यो यः स तथा, ततः कर्मधारयः, समच हर्षदैन्याभावात् मानेन-पूजया सहापमानता तस्यां शमित-उपशमितं रजा-पापं रतं वा-रतिर्विषयेष रयो वा-- औत्सुक्यं येन शमितरजाः शमितरतः शमितरयो वा-शमितरागद्वेषः समितः समितिषु पञ्चसु सम्यग्दृष्टिःसम्यग्दर्शनी, समश्च यः सर्वप्राणभूतेषु, तत्र प्राणा-द्वीन्द्रियादित्रसाः भूतानि-स्थावराः, से हु समणेत्ति स एव श्रमण इति वाक्ये निष्ठा, किंभूतोऽसावित्याह-श्रुतधारक: ऋजुका-अवक्र: उद्यतो वा-अनलसः || संयमी, सुसाधुः-सुष्टु निर्वाणसाधनपरः शरणं-त्राणं सर्वभूतानां-पृथिव्यादीनां रक्षणादिना सर्वजगद-14
सला-सवेजगद्वात्सल्यकता हित इत्यर्थः, सत्यभाषकश्चेति, संसारान्ते स्थितश्च 'संसारसमुच्छिपणे'त्ति समुMIच्छिन्नसंसार सततं-सदा मरणानां पारगः सर्वदैव तस्य न बालादिमरणानि भविष्यन्तीत्यर्थः, पारगश्च सर्वेषां संशयानां छेदक इत्यर्थः, प्रवचनमातृभिरष्टाभिः-समितिपञ्चकगुप्तित्रयरूपाभिः करणभूताभिरष्टकमरूपो यो ग्रन्धिस्तस्य विमोचको यः स तथा, अष्टमानमथन:-अष्टमदस्थाननाशकः खसमयकुशलश्च-ख
~514