SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२९] दीप अनुक्रम [४५] भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं+वृत्तिः) श्रुतस्कन्धः [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः • अध्ययनं [५] मूलं [२९] - आह् च--" सम्गामपरग्गामा जमाणियं आहडं तु तं होइ ।" [ स्वग्रामात् परग्रामात् यदानीतमाहृतं तु तद्भवति ] 'महिओ वलितं ति, उपलक्षणत्वान्मृत्तिका ग्रहणस्य मृत्तिकाजतुगोमयादिना उपलितं सत् यदुद्विय ददाति तन्मृत्तिकोपलिप्तं उद्भिन्नमित्यर्थः, आह च - "छगणाइणोवलितं उभिदिय जं तमुभिण्णं” [छगणादिनोपलिसमुद्भिद्य यत्तदुद्भिन्नं ] 'अच्छेषणं चैवत्ति आच्छेयं यदाच्छिय भृत्यादिभ्यः स्वामी ददाति, आह च--"अच्छेलं अच्छिंदिय जं सामिय भिचमाईणं” [ यत् खामी भृत्यादिभ्य आच्छिद्य ददाति तदाच्छेयं] अनिसृष्टं बहुसाधारणं सत् यदेक एव ददाति "अणिसिद्धं सामण्णं गोडियभत्ताइ ददउ एस्स" [ गोष्ठीकभक्तादि यत् सामान्यं तदेकस्य ददतोऽनिसृष्टं ] एतेषूदिष्ठादिषु प्राय उद्गमदोषा उक्ताः, तथा यत्तत्तिथिषु-मदन त्रयोदश्यादिषु यज्ञेषु नागादिपूजासु उत्सवेषु च शक्रोत्सवादिषु अन्तर्बहिर्वा उपाश्र यात् भवेत् श्रमणार्थं स्थापितं - दानाद्योपस्थापितं हिंसालक्षणं यत्सावद्यं तत्सम्प्रयुक्तं न कल्पते तदपि च परिग्रहीतुं, अथेति परप्रश्ने, कीदृशं ? किंविधं 'पुणाई'ति पुनः कल्पते-सङ्गच्छते परिग्रहीतुमोदनादीति प्रकृतं, उच्यते, यत्तदेकादशपिण्डपातशुद्धं - आचारस्य द्वितीयश्रुतस्कन्धप्रथमाध्ययन स्यैकादशभिः पिण्डपाताभिधायकैरुदेशैर्विशुद्धं तदुक्तदोषविमुक्तं यत्तत्तथा, तथा क्रपणं हननं विनाशनं पचनं च अभिपाक इति द्वन्द्वः एषां यानि कृतकारितानुमोदनानि स्वयं करणकारणानुमतयः तानि तथा त एव नवकोट्यो विभागा इति समासः, ताभिः सुपरिशुद्ध-निर्दोषं दशभिश्च दोषैर्विप्रमुक्तं ते च शङ्कितादय एषणादोषाः, For Penal Use On ~ 510 ~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy