________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [२],
---- मूलं [१८-१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१८-१९]
दीप अनुक्रम [२०-२१]
निभं तत्सरनमिति, कचित्तु ' वियडकोपरनिर्भ' ति दृश्यते, तच्चोपदेशगम्यं, 'सालिभसेल्लसरिसा ' बीहिकणिशभूकसमाः 'से' तस्य 'केसा' वालाः, एतदेव व्यनक्ति-'कविलतेएणं दिप्पमाणा' पिङ्गलदीप्त्या रोचमानाः 'उडियाकभल्लसंठाणसंठियं । उष्ट्रिका-मृण्मयो महाभाजनविशेषस्तस्याः कभल्लं-कपालं तस्य यत्संस्थानं तत्संस्थितं, 'निडालं ति ललाई, |पाठान्तरे ‘महल्लउट्टियाकमल्लसरिसोवमे' महोष्ट्रिकायाकभल्लसदृशमित्येवमुल्लेखनोषमा--उपमानवाक्यं यत्र तत्तथा, 'मुगुंसपुंछं ब' भुजपरिसपेविशिषो मुगुंसा सा च खाडहिल्लत्ति सम्भाव्यते, तत्पुच्छवत् , ' तस्येति पिशाचरूपस्य भुमगाओ' ति भ्रुवो, प्रस्तुतोपमार्थमेव व्यनक्ति'फुग्गफुग्गाओ' ति परस्परासम्बद्धरोमिके विकीर्णविकीर्णरोमिके इत्यर्थः, पुस्तकान्तरे तु 'जडिलकुडिलाओ 'त्ति प्रतीतं 'विगयचीभच्छदसणाओ' चि विकृतं बीभत्सं च दर्शनं-रूपं ययोस्ते तथा, 'सीसघडिविणिग्गयाण' शीर्षमेव घटी तदाकारत्वात् शीर्षघटी तस्या विनिर्गते इव विनिगते शिरोघटीमतिक्रम्य व्यवस्थितत्वात् 'अक्षिणी' लोचने, विकृतबीभत्सदर्शने प्रतीतं, कौँ-श्रवणो यथा शूर्पकरमेव-शूर्पखण्डमेव नान्यथाकारी, टप्पराकारावित्यर्थः, विकृतेत्यादि तथैव
उरम्भपुडसन्निमा' उरभ्रः-ऊरणस्तस्य पुटं-नासापुटं तत्सन्निभा-तत्सदृशी नासा नासिका, पाठान्तरेण-'हुरम्भपुडसंढाणसठिया ' तत्र हुरन्भ्रा-चाबविशेषस्तस्याः पुट-पुष्करं तत्संस्थानसंस्थिता, अतिचिपिटत्वेन तदाकृतिः 'झुसिर' ति महारन्ध्रा जमलचुल्लीसंठाणसंठिया' यमलयोः-समस्थितद्यरूपयोः चुल्लयोर्यत्संस्थानं तत्संस्थिते द्वे अपि तस्य नासापुटे-नासिकाविवरे, वाचनान्तरे 'महल्लकुब्बसंठिया दोऽवि से कबोला' तत्र क्षीणमासत्वादुब्रतास्थित्वाच 'कुछ' ति निम्नं क्षाममित्यर्थः, तत्संस्थितौ द्वावपि 'से' तस्य 'कपोलो' गण्डौ तथा 'घोडय' त्ति घोटकपुच्छबद्-अश्ववालधिवत्तस्य-पिशाचरूपस्य 'श्मश्रूणि
कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग:
~51~