SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२९] दीप अनुक्रम [४५] स्तरो-विस्तारो यस्य संवरबरपादपस्य स तथा, बहुविधः-अनेकप्रकारः स्वरूपविशेषो यस्य स तथा, तत्र सं|वरपक्षे पहुविधप्रकारत्वं विचित्रविषयापेक्षया क्षयोपशमाद्यपेक्षया च पादपपक्षे च मूलकन्दादिविशेषापेक्षयेति ततः पदद्वयस्य कर्मधारयः, सम्यक्त्वमेव-सम्यग्दर्शनमेव विशुद्धं-निर्दोष मूलं-कन्दस्याधोवर्ति यस्य स तथा, धृतिः-चित्तस्वास्थ्यं सैव कन्दः-स्कन्धाधोभागरूपो यस्य स तथा, विनय एव वेदिका-पार्वतः परिकररूपा यस्य स तथा, 'निग्गयतेलोकत्ति प्राकृतत्वात् त्रैलोक्यनिर्गतं त्रैलोक्यगतं भुवनत्रयव्यापकं अत एव विपलं-विस्तीर्ण यद यशः-ख्यातिस्तदेव निचितो-निविडा पीना-स्थूल: पीवरो-महान् सुजात:-सुनि-I8 पन्नः स्कन्धो यस्य स तथा, पञ्च महाव्रतान्येव विशाला-विस्तीर्णाः शाला:-शाखा यस्य स तथा, भावनैवअनित्यत्वादिचिन्ता वक-बल्कलं यस्य, वाचनान्तरे भावनैव त्वगन्तो-वल्कावसानं यस्य स तथा, ध्यानं च-धर्मध्यानादि शुभयोगाच-सह्यापाराः ज्ञानं च-बोधविशेषः तान्येव पल्लववरा-अकुरा प्रवालप्रवरप्ररोहाः तान् धारयति यः स तथा, ततः पदद्वयस्य कर्मधारयः, बहवो ये गुणा-उत्तरगुणाः शुभफलरूपा वा त एव कुसुमानि तैः समृद्धो-जातसमृद्धिर्यः स तथा, शीलमेव-ऐहिकफलानपेक्षप्रवृत्तिः समाधानमेव वा| सुगन्धा-सद्गन्धो यत्र स तथा, 'अणण्हवफलो त्ति अनास्रवः-अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य | स तथा, पुनश्च-पुनरपि मोक्ष एवं वरबीजसारो-मितालक्षणः सारो यस्य स तथा, मन्दरगिरिशिखरे-मेरुधराधरशिखरे या चूलिका-चूडा सा तथा सा इव अस्य-प्रत्यक्षस्य मोक्षवरे-घरमोक्षे सकलकर्मक्षयलक्षणे ~504~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy