SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७] ***% गाथा: म्भूताः?-मातुसुखानि ऋतुशुभानि वा कालोचितानीत्यर्थः यानि वरकुसुमानि च सुरभिचन्दनं च सुगन्धयो -वरचूर्णरूपा वासश्च धूपश्च शुभस्पर्शानि सुखस्पर्शानि वा वस्त्राणि च भूषणानि चेति द्वन्द्वस्तेषां यो गुणस्तैरुपपेता-युक्तास्ते तथा, तथा रमणीयातोयगेयप्रचुरनदादिप्रकरणानि च न लन्यानि द्रष्टुमिति योगः, तत्र नटा:-नाटकानां नाटयितारः नर्तका-ये नृत्यन्ति जल्ला-वरनाखेलकाः मल्ला:-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति 'वेलम्बग'त्ति विडम्बका:-विदूषकाः प्रतीताः प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका-ये रासकान् गायन्ति जयशब्दप्रयोक्तारो भाण्डा वा इत्यर्थः आख्यायका-ये शुभाशुभमाख्यान्ति लंखा-महावंशानखेलकाः मखाश्च-चित्रफलकहस्ता भिक्षाकाः 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः 'तुंब वीणिका' वीणावादकाः तालाचरा:-प्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः तत एतेषां यानि प्रकरणानि-प्रक्रियाकस्तानि च तथा, बहूनि-अनेकविधानि 'महुरस्सरगीयसुस्सराईति मधुरखराणां-कलध्वनीनां गायकानां यानि गीतानि-गेयानि सुखराणि-शोभनषड्जादिस्वरविशेषाणि तानि तथा, कि वहुना?-अन्यानि च-उक्तव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्य ननैव तानि यानि कामोत्कोचकारीणि श्रमणेन-संयतेन ब्रह्मचारिणेति भावः 'लन्भ'त्ति लभ्यानि उचितानि द्रष्टुं-प्रेक्षितुं न कथयितुं नापि च मर्नु जे इति निपातः, निगमयन्नाह-एवं पूर्वरतपूर्वक्रीडितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति ४।'पंचमगं'ति प दीप अनुक्रम [३९-४३] HESHARE % Hetaurary.org ~482
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy