________________
आगम
(१०)
प्रत
सूत्रांक
[२७]
गाथा:
दीप
अनुक्रम [३९-४३]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
अध्ययनं [४]
मूलं [२७] + गाथा:
श्रुतस्कन्धः [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
नीयं गुणान्नयति-प्रापयतीति गुणनायक मेकं - अद्वितीयमसदृशं 'मोक्खपहस्सऽवडिंसगभूअं' मोक्षपथस्यसम्यग्दर्शनादेरवतंसकभूतं - शेखरकल्पं प्रधानमित्यर्थः इति दोघकार्थः ॥ तथा येन शुद्ध चरितेन सम्यगासे वितेन भवति सुब्राह्मणो यथार्थनामत्वात् सुश्रमणः-सुतपाः सुसाधुः-निर्वाणसाधकयोगसाधकः तथा 'सइसिति स यथोक्तऋषिर्यधावद्वस्तुद्रष्टा यः शुद्धं चरति ब्रह्मचर्यमिति योगः 'स मुणित्ति स यथोक्तो मुनिः -मन्ता स संयतः - संयमवान् स एव भिक्षुः भिक्षणशीलो यः शुद्धं चरति ब्रह्मचर्यमिति, अब्रह्मचारी तु न ब्राह्मणादिरिति, आह च - "सकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि हि प्रकटितसर्वशास्त्रतत्वोऽपि हि वेदविशारदोऽपि हि । मुनिरपि वियति विततनानाद्भुतविभ्रमदर्शकोऽपि हि, स्फुटसिंह जगति तदपि न स कोऽपि हि यदि नाक्षाणि रक्षति ॥ १ ॥” तथा इदं च वक्ष्यमाणं पार्श्वस्थशीलकरणं अनुचरता ब्रह्मचर्यं वर्जयितव्यानीत्यस्य वक्ष्यमाणपदस्य वचनपरिणामात् वर्जयितव्यमिति योगः, किम्भूतं ? - रतिश्वविषयरागो रागश्च पित्रादिषु स्लेहरागो द्वेषश्च-प्रतीतो मोहश्व-अज्ञानमेषां प्रबर्द्धनं करोति यत्तत्तथा, किं मध्यं यस्य तत्किमध्यं किंशब्दस्य क्षेपार्थत्वादसारमित्यर्थः, प्रमाद एव दोषो यतः तत्तत्प्रमाददोष, पार्श्व स्थानां ज्ञानाचारादिवहिर्वर्तिनां साध्वाभासानां शीलं अनुष्ठानं निष्कारणं शय्यातरपिण्डपरिभोगादि पार्श्वस्थशीलं ततः पदत्रयस्य कर्मधारयस्तस्य करणं- आसेवनं यत्तत्तथा एतदेव प्रपश्यते - अभ्यञ्जनानि च घृतवशात्रक्षणादिना तैलमज्जनानि च तैललानानि तथा अभीक्ष्णं अनवरतं कक्षाशीर्षकरचरणवदनानां
Eucation International
For Praise Only
~ 474~