________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सत्रांक
[२७]
द्रामध्ये यथा जम्बू: सुदर्शनेति-सुदर्शनाभिधाना विश्रुतयशाः-विख्याता एवमिदमिति, किम्भूता जम्बूः-13
यस्था नानाऽयं द्वीपः जम्बूद्वीप इत्यर्थः, तथा तुरगपतिर्गजपती रथपतिर्नरपतिः यथा विश्रुतीष राजा तधेद-1 मपि विश्रुतमिति भावः, रथिकश्चैव यथा महारथगतः पराभिभावी भवतीत्येवमिहस्थः कर्मरिपुसैन्याभि-12 भाची भवतीति, निगमयन्नाह-एवं-उक्तक्रमेणानेके गुणाः प्रवरत्वविश्रुतत्त्वादयोऽनेकनिदर्शनाभिधेयाः अहीना:-प्रकृष्ठा अधीना वा-स्वायत्ता भवन्ति, केत्याह-एकस्मिन् ब्रह्मचर्ये-चतुर्थे व्रते, तथा यस्मिंश्च ब्रह्मचर्य आराधिते-पालिते आराधितं-पालितं व्रतमिदं-निर्ग्रन्थप्रव्रज्यालक्षणं सर्व-अखण्डं, तथा शील-समाधानं तपश्च विनयश्च संयमश्च क्षान्तिर्गुप्तिर्मुक्ति:-निर्लोभता सिद्धिर्वा तथैवेति समुच्चये तथा ऐहिकलौकिकयशांसि च कीर्तयश्च प्रत्ययश्च आराधिता भवन्तीति प्रक्रमः, तत्र यश:-पराक्रमकृतं कीर्तिः-दानपुण्यफलभूता अथवा सर्वदिग्गामिनी प्रसिद्धिर्यशः एकदिग्गामिनी कीर्तिः प्रत्ययः-साधुरयं इत्यादिरूपा जनप्रतीतिरिति, यत एवंभूतं तस्मान्निभृतेन-स्तिमितेन ब्रह्मचर्य चरितव्यं-आसेवनीयं, किंभूतं?-सर्वतो-मनाप्रभृतिकरणत्रययोगत्रयेण विशुद्ध-निरवयं यावजीवया प्रतिज्ञया यावजीवतया वा आजन्मेत्यर्थः, एतदेवाह-पावत् श्वेता
स्थिसंयत इति, श्वेतास्थिता च साधोप॑तस्य क्षीणमांसादिभावे सतीति, इतिशब्दो विवक्षितवाक्यार्थसदिमाप्ती, भगवन्तरेण ब्रह्मचर्य व्रतं स्तोतुं प्रस्तावपति-'एवं वक्ष्यमाणेन वचनेन भणितं व्रतं-ब्रह्मलक्षणं भग-14
वता श्रीमहावीरेण 'तं च इमं ति तच्चेदं वचनं पद्यत्रयप्रभृतिक-पश्चमहव्वयसुब्बयमूलं' पत्रमहाव्रतनामकानि
SMANOCESCAM
गाथा:
दीप अनुक्रम [३९-४३]
%-*-*-2
HIRasaram.org
~472~